तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 183, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १३३ ] प्रथमाह्निकम् । १७३ याजमानी संविदेव याज्या नान्येति चोदितम् । न त्वाकृतिः कुतोऽप्यन्या देवता न हि सोचिता ॥ १३३ ॥ संविदेव याज्या, इति उदितं - प्रतिज्ञातम् । न पुनः कुतोऽपि हेतोः अन्याकृतिः इन्द्रादिरूपा, सा च संवित् याजमान्येव, न पुनः अन्या-भिन्ना, याजमानी संविदद्वयमयी इत्यर्थः । सा हि एवंविधाकृतिः, आकृ- तिमती वा संविद्देवता नोचिता - संविदि भेदानुप- पत्तेः, संविदतिरिक्तस्य च जाड्यात् । न च जडस्य द्योतमानत्वाद्येकस्वभावं देवतात्वं युज्यते इति स्व- प्रकाशा संविदेव एका तत्तदात्मना स्फुरति इति युक्तमुक्तं ‘स एव याज्ययष्टृतयोदितः’ इति ॥१३३॥ अत एव च आदिसिद्धत्वात् संविदि न किंचि- द्विध्यादि सिद्धिनिमित्तमुक्तम् इत्याह पं० ८ क० पु० सा त्वेवं भिन्नाकृतिमती वा संविदिति पाठः । पं० ११ क० पु० द्योतमानत्वैकस्वभावमिति पाठः ।