तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 186, कुल 368 में से
संदर्भ में पढ़ें१७६ श्रीतन्त्रालोकः । ऽयेण आनन्त्यम् इत्याह 'जड' इत्यादि, चित्रता इति तत्र जडस्य तावच्छब्दादिभेदेन, तस्यापि तारम- न्द्यादिभेदेन बहुप्रकारत्वम्, अजडस्यापि सन्तान- भेदेन आनन्त्येऽपि बन्धत्रयस्य तारतम्यादिभेदेन नानात्वम् । संकुचिता प्रमातारो हि तत्तत्कर्माशाया- नुसारेण परिभ्राम्यन्तः तत्तदवस्थासु एकमपि स्वात्मानं धर्माधर्मादिबुद्धिभावरहितत्वेन तत्तदि- च्छापरिष्कृतत्वेन च नानाकारतया वैचित्र्येण जानते, जडं च विषयं सुखदुःखादिकारितया नानात्वेन परिविन्दन्ति इति ॥ १३४-१३५ ॥ एवं वैचित्र्यस्य किं निमित्तम् इत्याशङ्क्याह तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् । तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः ॥ १३६ ॥ एतदेवार्थद्वारकं संवादयति-तदुक्तम् इत्यादिना । पं० ७ ख० पु० बुद्धिभावरससहितत्वेन तत्तदिच्छाबहिष्कृतत्वेनेति पाठः । पं० १५ ख० पु० स बुद्ध इति पाठः ।