तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 188, कुल 368 में से
संदर्भ में पढ़ें१७८ श्रीतन्त्रालोकः । ‘..................ज्ञेयस्य ज्ञेयता ज्ञानमेव’ । इति । अत एव च तेषां ज्ञेयानां सतां देहादीनां छाया स्वेनैव स्वस्य आवरकत्वायोगात् न चितमा- च्छादयेत् - आवृणुयात्, येनैवं-विधं ज्ञानं न स्यात्, तेन देहादावात्मग्रहेऽपि आत्मनो न काचिच्चिद्रूपता- हानिः । तदुक्तं तत्रैव ‘ज्ञेयस्वभावश्चिद्रूपस्तच्छाया नैव च्छादयेत् ।’ इति ॥१३६॥ अत एवाह तेनाजडस्य भागस्य पुद्गलाणवादिसंज्ञिनः । अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥१३७॥ तेन इति चिदनाच्छादनेन हेतुना । अनावरण इति शुद्धसंविद्रूपे आत्मनि इत्यर्थः । देहादीनां हि संविद्रूपत्वेऽप्यामुखे ज्ञेयत्वेन अवभासादशुद्धत्वमपि संभवेत् ॥१३७॥ पं० १ क० ख० पु० संज्ञित इति पाठः ।