तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 192, कुल 368 में से
संदर्भ में पढ़ें१८४ श्रीतन्त्रालोकः । प्रथमानं विचित्राभि- र्भङ्गीभिरिह भिद्यते ॥१४२॥ तत् इति परमपरं वा ज्ञानं । साक्षादुपायेन इति शाम्भवेन । तदेव हि अव्यवहितं परज्ञानावाप्तौ निमित्तं, स एव परां काष्ठां प्राप्तश्चानुपाय इत्यु- च्यते । अत एव अनुपायः इति नोपायनिषेधमात्रम् इति वक्ष्यते । तस्य शाम्भवस्य उपायः शाक्तः, आदिशब्दात् तस्यापि उपाय आणवः । भिद्यते इति औपचारिकं भेद्मेति इत्यर्थः ॥ १४२ ॥ न केवलमेवं, यावदन्यदपि एतद्वैचित्र्ये निमित्त- मस्ति इत्याह तत्रापि स्वपरद्वार- द्वारित्वात्सर्वशोंशशः । व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते ॥१४३॥ स्वेन, यथा-शाम्भवेन शाम्भवम्, अत एव स्वपरलक्षणेन द्वारेण, द्वारि सोपायम् । सर्वशः इति- पं० ६ क० पु० उपायविधिनिषेधमात्रेति पाठः । पं० ६ ख० पु० औपाधिकं भेदमिति पाठः ।