तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 195, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १४६ ] प्रथमाह्निकम् । १८५ इति । अनेनैव आशयेन च अनुपायनिरूपणं करिष्यते । ननु यद्येवं तत्कथमयं व्यवहारः प्ररोहमुपारोहते ? इत्याशङ्क्याह एषैव इत्यादि । क्रियाशक्तिः इति - तत्तद्भेदवैचित्र्यावस्थितिकारित्वात् । तेन परमेश्वर- स्फार एवायम् इत्याशयः । अत एवायं तथात्वेन अज्ञातो बन्धकः, ज्ञातस्तु मोचकः, तदाह 'बन्धमोक्षै- ककारणम्' इति । यदुक्तं 'सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञाता सिद्धयुपपादिका ॥' इति ॥ १४५ ॥ ननु एवमपि अत्र किं नाम उपायतया संमतम् ? इत्याशङ्क्याह तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि । यत्स्फुरेत्प्रकटं साक्षा- त्तदिच्छाख्यं प्रकीर्त्तितम् ॥ १४६ ॥ तत्र - एवं सति, आद्ये - प्राथमिकालोचनज्ञानात्मनि, पं० १७ क० पु० प्राथमिककाले च ज्ञानात्मनीति पाठः । २४