तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 201, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १५५ ] प्रथमाह्निकम् । १६१ ननु कथं ज्ञानमेव क्रिया भवेत् ? इति दृष्टान्तोप- दर्शनेन उपपादयति लोकेऽपि किल गच्छामी- त्येवमन्तः स्फुरैव या । सा देहं देशमक्षांश्चा- प्याविशन्ती गतिक्रिया ॥१५४॥ अन्तः आत्मनि 'गच्छामि' इति या स्फुरा- स्फुरणम् उद्यन्तृतात्मिका संवित्, सैव देहाद्या- विशन्ती वैवश्याविष्करणेन स्वमयतामापादयन्ती गमनक्रिया भवति, इति युक्तमुक्तं 'ज्ञानमेव हि तत्त्तथा' इति। गन्तुर्हि 'गच्छामि' इति स्फुरणायां सत्यां कर्तृ- करणकर्मात्मकशरीरपादग्रामाद्यावेशेन गमनक्रिया- संपत्तिः स्यात् ॥१५४॥ तदेवोपसंहरति तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः । ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् ॥१५५॥ पं० १६ क० पु० ज्ञानमेव हि मोक्षायेति पाठः ।