तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 211, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १६६ ] प्रथमाह्निकम् । २०१ अभावात् को नाम फलभूतेऽपि मोक्षे भेदः स्यात् ॥ १६५ ॥ ननु 'तच्च साक्षादुपायेन..................' इत्यादिना साक्षात् उपायनानात्वमुक्तम् इति कथं न तद्भेदादुपयेऽपि भेदः ? इत्याशङ्क्याह मलतच्छक्तिविध्वंस- तिरोभूच्युतिमध्यतः । हेतुभेदेऽपि नो भिन्ना घटध्वंसादिवृत्तिवत् ॥ १६६ ॥ यत्र वास्तव एव हेतुफलभावोऽस्ति तत्रापि हेतोः दीक्षादेः भेदेऽपि तत्फलभूतस्य मलतच्छ- क्त्योर्विध्वंसादेः न कश्चिद्भेदः — कलातत्त्वभुवनादिना भेदेऽपि दीक्षायाः तस्य अविशेषात् , तथा च घटस्य मुद्गरकरभित्तिघटाद्युपायभेदेऽपि अविशिष्ट एव ध्वंसतिरोभावादिः । अतश्च अवश्यमेव हेतुभे- दात् फलभेदः इति नायमेकान्तः । यत्र पुनः पं० २ ख० पु० साक्षादेवोपायनानात्वमिति पाठः । पं० १२ क० पु० अवशिष्ट एवेति पाठः । २६