तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
DevanagariSanskritpublished368 पृष्ठ
पृष्ठ 212, कुल 368 में से
संदर्भ में पढ़ेंपृष्ठ 212
२०२ श्रीतन्त्रालोकः । काल्पनिक एव उपायोपेयभावः, तत्र का नाम इयं वार्ता इति भावः । तदेवम् इच्छाज्ञानक्रियात्मक- त्वाद् उपायस्य त्रैविध्येऽपि तदुपैयभूतेऽपवर्गे न कश्चित् भेदः इति सिद्धम् ॥ १६६ ॥ न केवलं युक्तित एव एतत्सिद्धं यावदागमतोऽपि इत्याह तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि । आदेशि परमेशित्रा समावेशविनिर्णये ॥ १६७ ॥ तत्रत्यमेव ग्रन्थं पठति अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः । उत्पद्यते य आवेशः शाम्भवोऽसावुदीरितः ॥ १६८ ॥ उच्चाररहितं वस्तु चेतसैव विचिन्तयन् । पं० ६ क० पु० परमेशेनेति पाठः । पं० १२ ख० पु० चिन्तकस्येवेति, प्रतिबोधित इति च पाठः ।