भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 213, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 213

श्लोक १७१ ] प्रथमाह्निकम् । २०३ यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते ॥ १६६ ॥ उच्चारकरणध्यान- वर्णास्थानप्रकल्पनैः । यो भवेत्स समावेशः सम्यगाणव उच्यते ॥ १७० ॥ व्यत्यासपाठे च अयमाशयः — यद् उपायोपेया- दिना द्वारद्वारिभावेन शाम्भवोपाये एव प्रधान्येन विश्रान्तिः इति ॥ १६८ ॥ १६६ ॥ १७० ॥ तदेव क्रमेण व्याचष्टे अकिंचिच्चिन्तकस्येति विकल्पानुपयोगिता । तया च झटिति ज्ञेय- समापत्तिर्निरूप्यते ॥ १७१ ॥ तया इति विकल्पानुपयोगितया । विकल्पोपयोगे हि तदैव 'यस्य ज्ञेयमयो भावः स्थिरः पूर्णः समन्ततः ।' पं० ४ क० पु० स्थान-विकल्पनैरिति पाठः ।