तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 225, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १८६ ] प्रथमाह्निकम् । २१५ अनियन्त्रेश्वरेच्छात्त इत्येतच्चर्चयिष्यते । पूर्वाभ्यासो जन्मान्तरीयः इति, अत एव चर्चयि- ष्यते त्रयोदशाह्निकादौ ॥ १८५ ॥ न केवलमस्य आवेशस्य त्रैविध्यमेव अस्ति, यावद्वान्तरप्रकारत्वमपि इत्याह पञ्चाशद्विधता चास्य समावेशस्य वर्णिता ॥ १८६ ॥ तत्त्वषट्त्रिंशकैतत्स्थ- स्फुटभेदाभिसन्धितः । वर्णिता इति श्रीपूर्वशास्त्रे । यदुक्तं तत्र 'रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते । भूततत्त्वात्ममन्त्रेशशक्तिभेदाद्वरानने ॥ पञ्चधा भूतसंज्ञोऽत्र त्रिंशद्धा तु तथापरः । आत्माख्यस्त्रिविधः प्रोक्तो दशधा मन्त्रसंज्ञकः ॥ द्विविधः शक्तिसंज्ञोऽपि ज्ञातव्यः परमार्थतः । पञ्चाशद्भेदभिन्नोऽयं समावेशः प्रकीर्तितः ॥' पं० ५ ग० पु० अस्याविशेषस्य इति पाठान्तरं च । पं० ६ ख० पु० प्रकारत्वमेवाहेति पाठः ।