तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 224, कुल 368 में से
संदर्भ में पढ़ें२१४ श्रीतन्त्रालोकः । यद्विकल्पानपेक्षत्व- सापेक्षत्वे निजात्मनि ॥ एवं संविदः सर्ववादिसिद्धं व्यवहारादौ विकल्प- सापेक्षत्वं परिहृत्य विकल्पानपेक्षत्वमेव स्फुटीकर्तु- मुदाहरति निशीथेऽपि मणिज्ञानी विद्युत्कालप्रदर्शितान् ॥१८४॥ तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि ॥ वैकटिको हि अचिरस्थायिनि परिमितेऽपि आलोके भूयसामपि रत्नानाम् अतिसूक्ष्मान् परस्पर- विशेषान् अवसायं विनापि अनुभवातिशयादेव जानीते, येन 'इदमल्पम्, इदं महत्,' इदमितोऽपि महद्रत्नम्' इत्यस्य विवेकः स्यात् ॥ १८४ ॥ किं चात्र अनुभवातिशये निमित्तं, येन विकल्प- नैरपेक्ष्येणापि वस्तुनः सिद्धिः स्यात् ? इत्याह नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो ॥ १८५ ॥