तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 228, कुल 368 में से
संदर्भ में पढ़ें२१८ श्रीतन्त्रालोकः । भेदाभेदमयत्वात्, शुद्धा शक्तिः-अभेदमयत्वा त् ॥१८६॥ ननु अस्तु एवं, भूतानां पुनः पृथक् निर्देशे किं- निमित्तम् ? इत्याशङ्क्याह भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः । तत्त्ववर्गात्पृथग्भूत- समाख्यान्यत एव हि ॥१९०॥ भूतानि तावत् प्रत्यक्षसिद्धानि इति, तदेव एषां तत्त्वान्तरेभ्यो भेदेन उपादाने निमित्तं, तानि हि नित्यानुमेयान्येव, तदाह 'कार्यहेत्वनुमेयतः तत्त्व- वर्गात्' इति । तथा चात्र भूतानि कारणपूर्वकाणि अचैतन्ये सति अनेकसंख्यायोगित्वात् घटादिवत् इत्यनुमानम् । यच्चैषां कारणं तानि ‘तन्मात्रेभ्यश्च भूतानि .............।’ इत्याद्युक्तेः तन्मात्राणि इति, स्वकार्येभ्यो भूतेभ्य एषाम् अनुमेयत्वम् । एवम् अनेनैव अनुमानेन मा- यान्तः सकलतत्त्ववर्गोऽनुमातव्यः । एतच्च तत्त्वाध्वनि