तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 234, कुल 368 में से
संदर्भ में पढ़ें२२४ श्रीतन्त्रालोकः । गर्भीकृत्य, एतदेव उपसंहारभङ्ग्या दृष्टान्तं दर्शयन् उपपादयति तस्माद्यथा पुरःस्थेऽर्थे गुणाद्यंशांशिकामुखात् । निरंशभावसंबोध- स्तथैवात्रापि बुध्यताम् ॥१६७॥ यथा संनिहिते घटादौ अर्थे लौहित्याद्यंशाभास- द्वारेण अनेकसामान्याभाससंमेलनात्मनो निरंशस्य अखण्डस्य अर्थस्य सम्यक् स्वालक्षण्येन बोधो भवेत् तथैव अत्रापि भूताद्यंशमुखेन निखिलरुद्रशक्त्य- वभासः इत्यधिगन्तव्यम् ॥१६७॥ एवमपि किं स्यात् ? इत्याशङ्क्याह अत एवाविकल्पत्व- ध्रौव्यप्राभववैभवैः । अन्यैर्वा शक्तिरूपत्वा- द्धर्मैः स्वसमवायिभिः ॥१६८॥ सर्वशोऽप्यथ वांशेन तं विभुं परमेश्वरम् । पं० १३ क० पु० अत एव विकल्पेति पाठः ।