तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 237, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २०२ ] प्रथमाह्निकम् । २२७ तत्तद्धर्मविषयत्वेन भेदनमवलम्ब्य न विषयीकुर्यात् तत् स्फुटा-नियतैकतरधर्मावभासमुखेन धर्मिस्वरू- पावभासमय्यः, अन्तः-अस्फुटाकारत्वेन, उल्लिखिताः चित्राः-अवान्तरनानाधर्मविषयाः संविदो यासां ताः, एवंविधाः अनुभूतयः-अनुभवा, नो भवेयुः न उत्पद्येरन् इत्यर्थः । यदि हि सर्वधर्माक्रान्त्या धर्मि- णि सर्वे अनुभवाः स्युः तत् परिव्राडित्यादौ एकै- कस्यापि तिस्रः कल्पना भवेयुः, तेन स्वेच्छावशात्, अर्थित्वानुरोधाद्वा, नैपुण्याद्वा प्रतिप्रमातृनियत- धर्मावभासमुखेनैव धर्मिण्यवभासो भवेत् न तु इतरथा इति युक्तम्-एकतरशक्त्यवभासमुखेन अन- न्तशक्तावपि परमेश्वरेऽवभासः इति ॥२०१॥ एतच्च न केवलं युक्त्या सिद्धं यावदागमेनापि इत्याह तदुक्तं श्रीमतङ्गादौ स्वशक्ति किरणात्मकम् । अथ पत्युरधिष्ठान- मित्याद्युक्तं विशेषणैः ॥२०२॥ पं० ११ क० पु० शक्त्यवभासेनानन्तशक्ताविति पाठः ।