तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 238, कुल 368 में से
संदर्भ में पढ़ें३२८ श्रीतन्त्रालोकः। तस्यां दिवि सुदीप्तात्मा निष्कम्पोऽचलमूर्तिमान् । काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥२०३॥ प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा । आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते ॥२०४॥ स्वशक्तिकिरणात्मकं यद्वस्तु तत् 'पत्युरधिष्ठानम्' इत्यादिभिः विशेषणैः अर्थात् विशिष्टमुक्तम् इति संबन्धः। 'अथ पत्युरधिष्ठानं स्वशक्तिकिरणात्मकम्।' इत्येवं-पाठ ऐशः, ग्रन्थकृता पुनरेवं विध्यनुवादभाव- दर्शनार्थम् अन्यथा पाठः कृतः, तान्येव विशेषणानि दर्शयितुं 'तस्याम्' इत्यादि 'उपचर्यते' इत्यन्तमागमः पठितः, स्वा अनन्यसाधारणा याः शक्तयः ता एव अभिन्नत्वप्रकाशत्वानन्त्यादिना किरणा रश्मयः पं० १२ क० पु० मौलः, ग० पु० पाठान्तरात्मा पुनरेवंविधानुभवदर्शनार्थ- मिति पाठः।