भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 24, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 24

१४ श्रीतन्त्रालोकः। इति वक्ष्यमाणदृशा नरसिंहगुप्तसंज्ञया ख्यातः- इत्यर्थः । अस्य हि ग्रन्थकृतः श्रीनरसिंहगुप्तविमला- ख्यौ पितरौ,-इति गुरवः । ‘सन्ति [न्तो] हि पदेषु पदैकदेशान्प्रयुञ्जानाः ।’ इति नीत्या ‘भीमो भीमसेनः’ इतिवत् अत्रापि नर- सिंहगुप्तसिंहगुप्तपदयोः प्रयोगः । ‘भरिततनुः’ इति ‘शिवशक्त्यात्मकं रूपं भावयेच्च परस्परम् । न कुर्यान्मानवीं बुद्धिं रागमोहादिसंयुताम् ॥ ज्ञानभावनया सर्वं कर्तव्यं साधकोत्तमैः ।’ इत्याद्युक्तनीत्या द्वयोरपि शिवशक्तिसमावेशमयत्वा- भिधानस्येष्टेः काकाक्षिन्यायेन योज्यम् । तदेवम् एवंविधसिद्धयोगिनीप्रायपितृमेलकसमुत्थतया ‘तादृङ्मेलककलिका- कलिततनुर्यो भवेद् गर्भे । उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं भक्तः ॥’