तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 25, कुल 368 में से
संदर्भ में पढ़ेंश्लो० १ ] प्रथमाह्निकम्। १५ इत्युक्तनीत्या स्वात्मनि निरुत्तरपदाद्वयज्ञानपा- त्रतामभिदधता ग्रन्थकृता निखिलषडर्धशास्त्रसार- संग्रहभूतग्रन्थकरणेऽप्यधिकारः कटाक्षीकृतः । अत्र च संभवन्त्यपि व्याख्यान्तराणि न कृतानि, ग्रन्थ- गौरवभयात् प्रकृतानुपयोगाच्च । केषांचिदपि व्याख्या- न्तराणामासमञ्जस्यमतीव संभवदपि न प्रकाशितम् । एवं हि ‘........................तस्यै हेतुं २ न चाचरेत् ।’ इति वक्ष्यमाणदृशा स्वात्मनि समयलोपावहं महात्मनाम् महागुरूणां ३ निन्दाबीजमासूत्रितम्,– २ हेतुः आक्षेपः । ३ समयलोपावहम् अचारभ्रष्टतासंपादकम् । महागुरूणां निन्दा- बीजमिति, इत्थं हि केचिदत्र मन्दधियः समर्थयन्ते,– विमलकला विगताः सर्वकलङ्कमला यस्यां सा षोडशी कलात्मिका तिथिः, अर्था दमावास्याख्या, सैव अभिनवसृष्टिः पञ्चदशकलासृष्टिः, तत्र सोद्योगा तथा भरिततनुश्च । पञ्चमुखगुप्तरुचिरिति, दिनं पञ्चयामकं रात्रि- स्त्रियामा इत्याश्रित्य पञ्चमुखं दिनं तत्र गुप्तरुचिरीक्षिताभिलाषः अमावस्यादिनप्रारम्भ इत्यर्थः । निन्दाबीजमिति सविचिकित्सज्योतिष- शास्त्रदृशा, न तु अनुत्तरदृशा, तत्र अमावस्यादिनप्रारम्भयोरवश्यं रक्ष- णीयत्वाद्भरमेवैतदिति सहृदया एवात्र प्रमाणम् ॥ पं० ८ ख० पु० तस्यैव हेतुमिति एव पदाधिकः पाठः ।