तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 247, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २१४ ] प्रथमाह्निकम् । २३७ सविकल्पतया माया- मयमिच्छादि वस्तुतः ॥२१४॥ एतच्चात्र न मनोमात्रम् इत्याह धीमनोऽहंकृति इति । अत एव स्फुटं - साक्षादभिव्यक्तस्वरूपम् इत्यर्थः । ततश्च 'सर्वे विकल्पः संसारः............।' इत्यादिनीत्या भेदप्रथारूपम् इत्युक्तं - 'सविकल्पतया मायामयम्' इति । एवमपि परमार्थतो यथायोगम् एतदिच्छाज्ञानक्रियात्मकम् इत्युक्तम् 'इच्छादि- वस्तुतः' इति । यथा खलु पतिरिच्छाद्याभिः शक्ति- भिर्विश्वं निर्मिमीते तथैव विकल्पाद्यपि बुद्ध्याद्य- न्तःकरणत्रयेण पशुरित्याशयः, विकल्पादौ हि प्रायः क्षेत्रज्ञस्यैव स्वातन्त्र्यम्, तन्निर्माणं च एतत्रया- धीनमेव इत्येवमुक्तम् ॥२१४॥ पं० ३ ग० पु० एतच्च नात्र मनोमात्रमिति पाठः । पं० ५ क० ग० पु० तश्चेति पाठः । पं० ११ क० पु० निर्मियते इति पाठः । पं० १३ ख० पु० क्षेत्रज्ञस्य हीति पाठः ।