तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 248, कुल 368 में से
संदर्भ में पढ़ें२३८ श्रीतन्त्रालोकः । अत आह अभिमानेन संकल्पा- ध्यवसायक्रमेण यः । शाक्तः स मायोपायोऽपि तदन्ते निर्विकल्पकः ॥२१५॥ इह हि स्वात्मनि अहङ्कारग्रहेण कर्तृत्वमभि- मन्य बाह्यमेषणीयादि तद्तद्रूपतया संकल्प्य तदेव च अन्यापोहेन निश्चित्य 'अहमेव सर्वत्र स्थितः' 'सर्वं वा मय्येव स्थितम्' इत्येवमात्मा यः शाक्तो वैकल्पिकः प्रत्यय उदेति स यद्यपि विकल्पानां भेदनिष्ठत्वात् मायात्मक उपायः तथापि तेषां विकल्पानाम् अभ्यासबलेन यथायथं सातिशयवि- कल्पजननात् अन्ते स्फुटतमार्थसाक्षात्कारात्मा निर्विकल्पकः शाम्भवः समावेशः स्यात् इत्यर्थः । यद्वक्ष्यति 'अनन्तराह्णिकोक्तेऽस्मिन् स्वभावे पारमेश्वरे । प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥' पं० ६ क० पु० अहङ्कारग्रहणकर्तृत्वेति पाठः । पं० ७ ख० पु० तदेवान्यापोहेति पाठः । पं० ६ क० पु० स्थितः एवं च मय्येवेति पाठः ।