तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 249, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २१६ ] प्रथमाह्निकम् । २३६ इत्याद्युपक्रम्य 'ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता । संविद्भ्येति विमलामविकल्पस्वरूपताम् ॥' इति । अत एव हि शाक्तोपायस्य उपायोपायत्व- मुक्तम् ॥२१५॥ ननु अस्मदादेः सर्वस्यैव अयत्नोपनतः स्वार- सिको निर्विकल्पकः प्रत्ययः स्थितः इति किंनाम तत्र शाम्भवावेशरूपत्वमुक्तं, यदपि उपेयतया उपदिश्यते ? इत्याशङ्क्याह पशोर्वै याविकल्पा भू- र्दशा सा शाम्भवी परम् । अपूर्णा मातृदौरात्म्या- त्तदपाये विकस्वरा ॥२१६॥ सा इति अविकल्पा भूः । यदुक्तं 'तस्यां दशायामैश्वरो भावः पशोरपि।' इति । यद्येवं तर्हि अत्र किमुपदेशादियत्नेन ? इत्याह परमपूर्णा इति । संकुचितस्य हि मातुः पं० ४ क० पु० शाक्तस्य उपायस्येति असमस्तः पाठः । ग० पु० शाक्तस्यो- पायोपायत्वमिति । पं० १० क० पु० पशोर्यैवाविकल्पेति पाठः ।