भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 256, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 256

२४६ श्रीतन्त्रालोकः । इति । एवं च निर्विकल्पात्मा परः प्रकाश एव सर्वेषामेषामुपायः इत्युक्तं स्यात् ॥२२६॥ न चैतदस्मदुपज्ञमेव इत्याह संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतोऽब्रवीत् । कल्पनायाश्च मुख्यत्व- मत्रैव किल सूचितम् ॥२२७॥ अतः इति एकस्यामेव निर्विकल्पात्मिकायां संवि- त्तौ अनुप्रवेशात् । तदुक्तं 'संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः ।' इति । अत्र च उपायानां नानात्वात् प्राप्तं तावत्फ- लभेदकल्पनम्, अन्यथा हि निषेधस्य प्राप्तिपूर्व- त्वात् स एवात्र न स्यात् इति 'न प्रकल्प्या' इत्युक्त्या एतदाक्षिप्तम् इत्याह - कल्पनाया इति । मुख्यत्वम् इति अभिधेयत्वं । सूचितम् इति - न तु साक्षाद- भिहितम् इति भावः ॥२२७॥ न केवलमिह निर्विकल्पके विश्रान्तिसतत्त्वं, याव- दितो बाह्यानां मतेऽपि इत्याह पं० १० ग० पु० संवित्तिः फलभेदेन न प्रकल्प्या मनीषिभिरिति पाठान्तरं च ।

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित) · पृष्ठ 256, कुल 368 में से · BharatKosha