भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 257, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 257

श्लोक २२६] प्रथमाह्निकम् । २४७ विकल्पापेक्षया योऽपि प्रामाण्यं प्राह तन्मते । तद्विकल्पक्रमोपात्त- निर्विकल्पप्रमाणता ॥२२८॥ तस्य विकल्पापेक्षनिर्विकल्पप्रामाण्यवादिनो वैभा- षिकादेः मतेऽपि, ते च ते विकल्पाः, तेषां यः क्रमः - परम्परा, तया उपात्ता - जनिता, निर्विकल्पस्यैव प्रमाणता - विकल्पोपारोहेण निर्विकल्प एव विश्रा- न्तिः इत्यर्थः ॥२२८॥ एतदेव उदाहरति रत्नतत्त्वमविद्वान्प्राङ्- निश्चयोपायचर्चनात् । अनुपायाविकल्पाप्तौ रत्नज्ञ इति भण्यते ॥२२६॥ यः कश्चन वैकटिकादिः आदौ अविकल्पवृत्त्या रत्नस्वरूपमजानानोऽपि 'किमेवमस्य तत्त्वं न वा' इत्यादिकल्पनामुखेन विचारमवलम्ब्य, अनुपायस्य स्वारसिकस्य अविकल्पस्य उत्थाने रत्नज्ञः तद्विषय- पं० १८ क० पु० रत्नज्ञस्तद्विषयमन्त्रनिर्विकल्पज्ञानम् इति ख० पु० तद्विषयो मन्त्रेति पाठः ।