तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 258, कुल 368 में से
संदर्भ में पढ़ें२४८ श्रीतन्त्रालोकः। तत्त्वं निर्विकल्पं जानानः इत्युच्यते इति वाक्या- र्थः । एवमाणवाद्यभिज्ञेऽपि वाच्यम् ॥२२६॥ इह खलु भेदभेदाभेदाभेदात्मना त्रिधा ज्ञानं, यदुक्तं 'वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते । भेदेन भेदाभेदेन तथैवाभेदभागिना ॥' इति । तत्र आणवं भेदप्रधानमुक्तं, शाक्तं च भेदाभेदप्रधानं, शाम्भवं पुनः किं प्रधानम् ? इत्या- शङ्क्याह अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते । भेदाभेदात्मकोपायं भेदोपायं तदाणवम् ॥२३०॥ ननु '.............मुक्तिश्च शिवदीक्षया।' इत्याद्युक्तेः दीक्षादेः क्रियाया अपि मुक्त्युपायत्व- पं० ३ क० पु० खलु भेदाभेदौ तदात्मना त्रिधा इति पाठः । पं० ६ क० पु० अभेदभागिनीति पाठः । पं० ८ क० पु० किं प्रमाणमिति पाठः ।