तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 259, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २३१ ] प्रथमाह्निकम् । २४६ मुक्तम् इति सा किमुपायान्तरमतिरिक्तम्, उत अत्रैव कुत्रचिदन्तर्भावमेति ? इत्याशङ्क्याह अन्ते ज्ञानेऽत्र सोपाये समस्तः कर्मविस्तरः । प्रस्फुटेनैव रूपेण भावी सोऽन्तर्भविष्यति ॥२३१॥ सोपाये इति उच्चाराद्युपायसहभूते इत्यर्थः । अत एव तत्र 'सोपाये' इति प्रागुक्तम् । समस्तः कर्मविस्तरः इति - दीक्षादिर्विचित्रः क्रियाकलापः, भावी वक्ष्यमाणः । अन्तर्भविष्यति इत्यनेन - नैतद्- तिरिक्तम् उपायान्तरमस्ति इत्यावेदितम् ॥२३१॥ ननु सजातीये सजातीयस्य अन्तर्भावो न्याय्यो न तु इतरथा, इति कथं दीक्षादेः क्रियाया आणव- ज्ञानान्तर्भावः स्यात् ? इत्याशङ्क्याह क्रिया हि नाम विज्ञाना- न्नान्यद्वस्तु क्रमात्मताम् । पं० १ क० पु० अतिरिक्तं वा स्यात् सात्रैव कुत्रचिदिति, ख० पु० सा तत्रै- वेति पाठः । ३२