भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 260, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 260

२५० श्रीतन्त्रालोकः । उपायवशतः प्राप्तं तत्क्रियेति पुरोदितम् ॥२३२॥ तत् इति विज्ञानं, पुरा इति 'यतो नान्या क्रिया नाम' इत्यादौ ॥२३२॥ ननु 'ज्ञानं मोक्षैककारणम्' इत्यादिना 'ज्ञाना- न्मुक्तिः' इति तावत्प्रतिज्ञातं, तत्किं स्वाधिकरणं मोचकम्, उत पराधिकरणम्, स्वाधिकरणत्वे च तस्य किं दीक्षायां सत्यामसत्यां वा मोचकत्वम्, असत्यां चेत् 'न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे ।' इत्याद्युक्त्या ज्ञानाधिगमे एव अधिकारो नास्ति इति किं कस्य मोचकं स्यात्, सत्यां चेत् परापेक्षा- त्मनैव स्वात्मनि दीक्षाकरणानुपपत्तेः, पराधिकरणत्वे च कारणमन्यत्र कार्यं च अन्यत्र इति महान् दोषः ? इत्याशङ्क्याह सम्यग्ज्ञानं च मुक्त्येक- कारणं स्वपरस्थितम् । यतो हि कल्पनामात्रं स्वपरादिविभूतयः ॥२३३॥ पं० १७ ग० घ० पु० स्वपरिस्थितिमिति पाठः ।