भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 261, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 261

श्लोक २३४ ] प्रथमाह्निकम् । २५१ कल्पनामात्रम् इति, वस्तुतो हि एकैव संवित् तत्त- त्स्वपराद्याभासतया प्रस्फुरति इत्यभिप्रायः ॥२३३॥ अत एवाह तुल्ये काल्पनिकत्वे च यदैक्यस्फुरणात्मकः । गुरुः स तावदेकात्मा सिद्धो मुक्तश्च भण्यते ॥२३४॥ गुर्वगुर्वाद्यपेक्षया स्वपरकल्पनायाः साम्येऽपि येन शिष्येण गुरुणा वा यदैक्यम् एकीकारः तेन स्फुरणं स्वपराद्याभासविभागाभावेन एकघनसंविद्रूपतया वि- मर्शनं तदात्मा यो गुरुः स तावान् ऐक्यस्फुरणा- वधिः एक आत्मा यस्य तथाभूतः सन् सिद्धो मुक्तश्च पारमैश्वर्यमात्रमुच्यते इत्यर्थः । इदमुक्तं भवति - यावदस्य हि स्वसंविदेकात्मत्वेन परामर्शः तावदयम् एक एव प्राप्तपरप्रकाशैकात्म्यः परिस्फुरति इति । तदुक्तं पं० २ क० पु० स्वपराभासात्मतया प्रस्फुरतीति भावः इति पाठः । पं० १० क० पु० स्वपराद्यवभासेति पाठः । पं० १३ पारमैश्वर्यपात्रमिति पाठः संगतोऽनुमन्यते । पं० १४ क० पु० संविदात्मकत्वेनेति पाठः ।