भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 262, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 262

३५२ श्रीतन्त्रालोकः । 'एवं व्याप्तिं तु यो वेत्ति परापरविभागतः । स भवेन्मोचकः साक्षाच्छिवः परमकारणम् ॥' इति ॥२३४॥ अत एवाह यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः । सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः ॥२३५॥ तत एव स्वसंतानं ज्ञानी तारयतीत्यदः । युक्त्यागमाभ्यां संसिद्धं तावानेको यतो मुनिः ॥२३६॥ संतानः शिष्यप्रशिष्यादिरूप इति, इति तावदा- त्मत्वेन एकस्यैवास्य स्फुरणात् । तत इति तावतः संतानात् । तावन्तं हि संतानमवलम्ब्य संविदैका- त्म्यात् एक एवायं गुरुः इति यत् संतानिनो मुच्यन्ते, तत् स एव स्वात्मना मुच्यते इति स्वपरविभागस्य काल्पनिकत्वात् न कश्चिद्दोषः । अत एवाह 'तत एव' इत्यादि, तारयति इति । तदुक्तं पं० ६ ग० पु० तावदेको गुरुर्मत इति पाठान्तरं च ।