भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 263, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 263

श्लोक २३८ ] प्रथमाह्निकम् । २५३ 'आचार्यः स्वजनानां च कुलकोटिसहस्रशः । ज्ञानज्ञेयपरिज्ञानात्सर्वान्संतारयिष्यति ॥' इति । अत्र हेतुः 'तावानेको यतो मुनिः' मुनिः इति गुरुः ॥२३५॥२३६॥ एवं च सति अयत्नेन परोक्तदूषणोद्धारः सिद्धः इत्याह तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता । दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् ॥२३७॥ ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत् । अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम् । इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् ॥२३८॥ पं० ११ क० पु० ज्ञानात्मा चेति चेज्ज्ञानमिति, ख० पु० ज्ञानात्मा चेदिति ज्ञानमिति पाठः । पं० १४ क० पु० नाम सामञ्जसम् इति पाठः ।