तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 264, कुल 368 में से
संदर्भ में पढ़ें२५४ श्रीतन्त्रालोकः । ये इति भेदवादप्रकाराः, ते इति एवं चोद्यविधा- यिनः, क्षिप्ताः प्रतिक्षिप्ताः । यन्मूलत एव ज्ञानक्रिय- योरैक्यमभ्युपगतं स्वपरविभागस्य च काल्पनिकत्वम् इति तदेव च अत्र प्रतिसमाधानं नान्यत् इत्याह ‘यत्तु’ इत्यादि । यदन्यैर्भेदैश्वरवादिभिर्निरूपितं तत् पुरस्तात् निषेत्स्यामः इति संबन्धः ॥२३७॥२३८॥ ननु यदि भेदवाद्युक्तं मलस्य द्रव्यरूपत्वं नाभ्यु- पेयते, तत्तस्य किं रूपम् ? इत्याशङ्क्याह मलो नाम किल द्रव्यं चक्षुःस्थपटलादिवत् । तद्विहन्त्री क्रिया दीक्षा त्वञ्जनादिककर्मवत् ॥२३९॥ तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम् । मलमायाकर्मणां च दर्शयिष्यामहे स्थितिम् ॥२४०॥ पं० ३ क० पु० ऐक्यमुपगतमिति पाठः । पं० ११ क० पु० विहर्त्रीति, ग० पु० त्वाञ्जनादीति च पाठः ।