भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 265, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 265

श्लोक २४१ ] प्रथमाह्निकम् । २५५ एतदेव अधिकावापेन उपसंहरति एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् । मूलं तदुत्तरं मध्य- मुत्तरोत्तरमादिमम् ॥२४१॥ पश्चिममिति आणवम्, मूलमिति, तस्यैव शाक्त- क्रमेण शांभवे विश्रान्तिः तदाह तदुत्तरम् इति, तस्मा- दाणवात्, उत्तरं विश्रान्तिस्थानत्वादधिकं शाक्तम् उत्तरात् शाक्तादपि उत्तरं शांभवम् । यदुक्तं 'विभुशक्त्यणुसंबन्धात्समावेशस्त्रिधा मतः । इच्छा-ज्ञान-क्रियायोगादुत्तरोत्तरसंभृतः ॥' इति ॥२४१॥ न केवलमाणवादेः विश्रान्तिधामतया शांभवमेव ज्ञानमुत्कृष्टं, यावदस्मादनुपायाख्यम् अन्यत् इत्याह ततोऽपि परमं ज्ञान- मुपायादिविवर्जितम् । पं० ४ क० पु० पूर्वे यदुत्तरमिति पाठः । पं० ६ ग० पु० आणवमूलमिति, क० पु० आणवमङ्गमिति तस्येति पाठः । पं० ७ विश्रान्तिरित्यारभ्य उत्तरं विश्रान्तिस्थानेत्यन्तः पाठः ग० पुस्तकात् पूरितोऽस्ति ।