तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 266, कुल 368 में से
संदर्भ में पढ़ें२५६ श्रीतन्त्रालोकः । आनन्दशक्तिविश्रान्त- मनुत्तरमिहोच्यते ॥२४२॥ परमम् इति उपेयैकरूपत्वात्, अत एवोक्तम् ‘उपायादिविवर्जितम्’ इति । अत एव च ‘आनन्द- शक्तिविश्रान्तम्’ इत्युक्तम् । इच्छादीनां हि एषणी- यादिविषयावच्छेदेन बाह्योन्मुखत्वात् भेदसंभाव- नापि स्यात्, आनन्दशक्तिः पुनः ‘आनन्दो ब्रह्मणो रूपम्’...............।’ इत्याद्युक्त्या हि चितस्तत्स्वरूपमेव इति, नात्र उपायगन्धोऽस्ति इति तात्पर्यम् ॥२४२॥ एतच्च न स्वोपज्ञम् अपि तु सर्वत्रैव आगमेषु उक्तम् इत्याह तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः । अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते ॥२४३॥ मालिन्यां सूचितं चैत- त्पटलेऽष्टादशे स्फुटम् ।