भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 267, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 267

श्लोक २४४ ] प्रथमाह्निकम् । २५७ न चैतदप्रसन्नेन शंकरेणेति वाक्यतः ॥ २४४॥ इत्यनेनैव पाठेन मालिनीविजयोत्तरे । तत्र हि 'अनायासमनारम्भमनुपायं महाफलम् । श्रोतुमिच्छामि योगेश योगं योगविदांवर ॥' इति देव्या पृष्टे 'शृणु देवि प्रवक्ष्यामि योगामृतमनुत्तमम् । यत्प्राप्य शिवतां मर्त्या लभन्त्यायासवर्जिताः ॥ न चैतदप्रसन्नेन शंकरेणोपदिश्यते । कथंचिदुपलब्धेऽपि वासना न प्रजायते ॥' इत्याद्युपक्रम्य 'तस्मात्तदभ्यसेन्नित्यमविरक्तेन चेतसा । स विसर्गो महादेवि यत्र विश्रान्तिमर्हति ॥ गुरुवक्त्रं तदेवोक्तं शक्तिचक्रं तदुच्यते । तदेव सर्वमन्त्राणामुत्पत्तिस्थानमुत्तमम् ॥' इत्याद्युक्तम् ॥ २४३॥ २४४॥ पं० १ न चैतदप्रसन्नेन इति पद्यं ग० पुस्तकात् पूरितमस्ति । पं० ११ क० पु० उपलभ्यत इति पाठः । पं० १४ क० पु० अभ्यसन्नित्यं सुविरक्तेनेति पाठः । ३३