भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 268, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 268

२५८ श्रीतन्त्रालोकः । अयमेव च शास्त्रार्थः इत्याह इति ज्ञानचतुष्कं य- त्सिद्धिमुक्तिमहोदयम् । तन्मया तन्यते तन्त्रा- लोकनाम्न्यत्र शासने ॥२४५॥ इतीति तन्त्रालोके - तन्त्राणां पारमेश्वराणाम् आलोक इव आलोकः, तानि आलोकयति प्रकाश- यति इति वा । इति - उक्तस्वरूपं यत् ज्ञानचतुष्कं, किं भूतं ? सिद्धिमुक्त्योर्महान् उदयः अस्मिन् इति कृत्वा महोदयं, तत् अत्र तन्त्रालोके शासने तन्यते - विस्तरेण प्रकाश्यते इत्यर्थः ॥२४५॥ अथ 'तत्र नानुपलब्धेऽर्थे न निर्णीते प्रवर्तते । किं तु संशयिते न्यायस्तदङ्गं तेन संशयः ॥' इत्याद्युक्त्या प्रायः संशयिते एव अर्थे निर्णया- त्मनः शास्त्रस्य प्रणयनमुक्तम् इति संशयस्य तद- ङ्गत्वात् प्रथमं तत्स्वरूपमेव निरूपयितुम् उपक्रमते पं० १४ क० पु० न्यायो न्यायाङ्गं तेनेति पाठः ।