भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 269, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 269

श्लोक २४७] प्रथमाह्निकम् । २५६ तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते । अनुद्घाटितरूपं त- त्पूर्वमेव प्रकाशते ॥२४६॥ अन्तः - मानसविज्ञानादौ, अनुद्घाटितरूप- मिति - अनुल्लिखितविशेषं, सामान्यधर्मात्मकम् इत्यर्थः ॥ २४६ ॥ अयमेव च प्रायः 'संशयः' इत्युच्यते इत्याह तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा । संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा ॥२४७॥ तथा-प्राथमिकत्वेन अनुद्घाटितः करचरणादि- विशेषधर्मानवगमात् अनुन्मुद्रितो योऽसौ ऊर्ध्वता- दिः सामान्यधर्मा आकारः तेन अनिर्वाच्येन अन्य- तरधर्मिविशेषनिश्चयाभावात् उभयांशावलम्बित्वेन पं० १५ क० पु० अन्यतरधर्मे विशेषेति पाठः ।