तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 270, कुल 368 में से
संदर्भ में पढ़ें२६० श्रीतन्त्रालोकः । नियतरूपतया वक्तुमशक्येन आत्मना स्वरूपेण विशिष्टा या प्रथा-प्रतीतिः सा संशयः, स हि ऊर्ध्वतादेः सामान्यात्मनो धर्मस्य अधिगमे वक्र- कोटरत्वादीनां विशेषधर्माणां च अनधिगमे सति उदियात् । तदाह 'कुत्रचित्' इत्यादि-कस्मिंश्चित् सामान्यधर्मावच्छेदिनि धर्मिणि इत्यर्थः । नान्यथा इति-सर्वात्मना निश्चिते धर्मिणि अनिश्चिते वा इति यावत् ॥२४७॥ एतदेव विभज्य दर्शयति एतत्किमिति मुख्येऽस्मि- न्नैतदंशः सुनिश्चितः । संशयोऽस्तित्वनास्त्यादि- धर्मानुद्घाटितात्मकः ॥२४८॥ एतत्किमिति-परामर्शात्मा संशयः, 'स्थाणुर्वा पुरुषो वा' इत्यादिपरामर्शान्तरापेक्षया सर्वेषामेव विशेषधर्माणाम् अनुद्घाटितत्वात् मुख्यः, तत्र च किम् इत्यंशापेक्षया य एतदंशः स धर्मिमात्रग्रहणात् सुष्ठु निश्चितः । ननु पं० ३ क० पु० धर्मस्याप्यधिगमे वक्रकोटरत्वेति च पाठः ।