तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 271, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २४८ ] प्रथमाह्निकम् । २६१ ‘नियतोभयांशावलम्बी विमर्शः संशयः ।’ इति संशयस्य लक्षणं, तत्र चेत् एकः कश्चिदंशो निश्चितः तत्कृतं तेन, इत्याह ‘संशयः’ इत्यादि । अ- स्तित्वं च नास्तित्वं च तत् अस्तित्वनास्तित्वमादिर्येषां विशेषधर्माणां तैः अनुद्घाटितः अनुन्मुद्रित आत्मा स्वरूपं यस्य स तथा, यत्र हि सत्त्वासत्त्वाख्ययोरपि धर्मयोरनिश्चितत्वात् उद्घाटनं न वृत्तं तत्र का वार्ता अन्येषां धर्माणां ? इति सर्वेषामेव धर्माणाम् अनुल्लिखिताकारत्वात् नियतधर्मानवलम्बनात् अयं मुख्यः संशयः, किमित्यंशो हि अनुल्लिखितार्थाकारा- भिधायक एव इति भावः ॥२४८॥ तदाह किमित्येतस्य शब्दस्य नाधिकोऽर्थः प्रकाशते । अधिकः इति एतच्छब्दार्थात् ॥ तर्हि किमर्थमुपाधीयते ? इत्याशङ्क्याह पं० २ क० पु० चेत् य एतदंश इति पाठः । पं० ४ क० पु० तदस्तित्वनास्त्यादि इति पाठः । पं० ७ क० पु० निश्चितत्वाद् दुर्घटनं न वृत्तमिति पाठः । पं० १० क० पु० लिखिताकारत्वाभिधायके एव इति पाठः ।