तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
DevanagariSanskritpublished368 पृष्ठ
पृष्ठ 272, कुल 368 में से
संदर्भ में पढ़ेंपृष्ठ 272
२६२ श्रीतन्त्रालोकः । किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् ॥२४६॥ अयम् इति किं-शब्दः ॥२४६॥ संशयस्य च मुख्यत्वं क्वचिदमुख्यत्वे सात युज्यत इत्यस्यामुख्यत्वमपि दर्शयितुमाह स्थाणुर्वा पुरुषो वेति न मुख्योऽस्त्येष संशयः । भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि ॥२५०॥ न मुख्यः इति - पूर्ववत् सर्वेषामेव धर्मांणाम् अनुद्घाटितरूपत्वाभावात्, यतः स्थाण्वादिनियत- परामर्शन्यथानुपपत्त्या भूयसामस्थाण्वादिवर्तिनां धर्मांणाम् एष निश्चयात्मा प्रत्ययः ॥२५०॥ ननु यद्येवं तर्हि अत्र वा अर्थसंभेदसंभवात् नियतस्य च अनिश्चयात् उदितानुदितहोमन्यायेन विकल्प एव भवेत् ? इत्याशङ्क्याह
पं० ७ क० पु० मुख्यस्त्वेव संशय इति पाठः । पं० ८ क० पु० भूयःसुधर्मेति पाठः । पं० १३ क० पु० धर्मांणामेव निश्चयेति पाठः ।