भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 273, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 273

श्लोक २५१] प्रथमाह्निकम्। २६३ आमर्शनीयद्वैरूप्या- नुद्घाटनवशात्पुनः । संशयः स किमित्यंशे विकल्पस्त्वन्यथा स्फुटः ॥२५१॥ आमर्शनीयं स्थाणुपुरुषलक्षणं यत् द्वैरूप्यं, तस्य अनुद्घाटनं - वक्रकोटरत्वादि विशेषरूपतयानावि- ष्करणं ततोऽयं प्रत्ययः किमित्यंशसंभेदात् संशय एव । 'स्थाणुर्वा पुरुषो वा' इत्यत्र हि किं स्थाणुः किं पुरुषः इत्येव तात्त्विकः संशयार्थः, यदि परमेतत् किमिति केवले किमंशे सर्वेषामेव विशेषधर्माणां अनुद्घाटितरूपत्वात् मुख्यत्वम्, अत्र च निय- तविशेषधर्मानवगमात् अमुख्यत्वम्-इति विशेषः । विकल्पे पुनर्व्रीहियवयोरुभयोरपि निश्चितत्वे सति नानुद्घाटितरूपत्वम्, तदाह 'विकल्पस्त्वन्यथा स्फुटः' इति । अन्यथा इति - आमर्शनीययोर्द्वयोरपि व्रीहियवयोर्विशेषधर्मात्मना निश्चयात्, एवं-विधश्चायं पं० ३ क० पु० किमप्यंशे इति पाठः । पं० १३ ख० पु० उभयोरिन्दोरिति पाठः । पं० १४ क० पु० नान्यतद्रूपत्वमिति पाठः ।