भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 274, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 274

२६४ श्रीतन्त्रालोकः । संशयः शास्त्रप्रवृत्तौ निमित्ततां भजते इत्युक्तप्रायम्। शास्त्रं हि निर्णयात्म, निर्णयश्च प्रायः संदिग्ध एवार्थे प्रवर्तते, नहि उपलब्ध एव संशयविषयता प्रतिपद्यते नानुपलब्धः, संशयस्य च प्रमातृधर्मत्वात् यद्यपि केनचित्संशयानेन संदिग्धोऽर्थः प्रतिपद्यते तदा तस्योपलम्भः स्यात्, तत्प्रतिपादनमेव च प्रश्नः इति सोऽपि स्वकारणवत् शास्त्रप्रवृत्तौ निमित्ततां यायात्, तन्निर्णयाय च प्रारभ्यमाणस्य शास्त्रस्य त्रिविधा प्रवृत्तिः-उद्देशो, लक्षणं, परीक्षा च इति, नामधेयेन पदार्थाभिधानमात्रं चोद्देशः, तस्य च प्रथममवश्यमुपादानं कार्यम्-अनुद्दिष्टस्य लक्षण- परीक्षानुपपत्तेः, अतश्च उद्देशं विना लक्षणपरीक्षाम- शास्त्रस्य प्रणयनमेव न घटते-इत्यस्यापि तत्र अङ्गत्वम् ॥ २५१ ॥ ननु एकेनैव शास्त्रप्रणयनसिद्धेः किमर्थं त्रितयम् ? इति चेत्, न चैतत्-परस्परानुषक्ततयैव अत्र एषां पं० ४ क० पु० धर्मत्वायपि इति पाठः । पं० ११ क० पु० अनुद्दिश्य लक्षणेति पाठः । प० १२ ख० पु० प्राणनायनासिद्धेरिति पाठः ।