तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
२५६ श्रीतन्त्रालोकः । आनन्दशक्तिविश्रान्त- मनुत्तरमिहोच्यते ॥२४२॥ परमम् इति उपेयैकरूपत्वात्, अत एवोक्तम् ‘उपायादिविवर्जितम्’ इति । अत एव च ‘आनन्द- शक्तिविश्रान्तम्’ इत्युक्तम् । इच्छादीनां हि एषणी- यादिविषयावच्छेदेन बाह्योन्मुखत्वात् भेदसंभाव- नापि स्यात्, आनन्दशक्तिः पुनः ‘आनन्दो ब्रह्मणो रूपम्’...............।’ इत्याद्युक्त्या हि चितस्तत्स्वरूपमेव इति, नात्र उपायगन्धोऽस्ति इति तात्पर्यम् ॥२४२॥ एतच्च न स्वोपज्ञम् अपि तु सर्वत्रैव आगमेषु उक्तम् इत्याह तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः । अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते ॥२४३॥ मालिन्यां सूचितं चैत- त्पटलेऽष्टादशे स्फुटम् ।
श्लोक २४४ ] प्रथमाह्निकम् । २५७ न चैतदप्रसन्नेन शंकरेणेति वाक्यतः ॥ २४४॥ इत्यनेनैव पाठेन मालिनीविजयोत्तरे । तत्र हि 'अनायासमनारम्भमनुपायं महाफलम् । श्रोतुमिच्छामि योगेश योगं योगविदांवर ॥' इति देव्या पृष्टे 'शृणु देवि प्रवक्ष्यामि योगामृतमनुत्तमम् । यत्प्राप्य शिवतां मर्त्या लभन्त्यायासवर्जिताः ॥ न चैतदप्रसन्नेन शंकरेणोपदिश्यते । कथंचिदुपलब्धेऽपि वासना न प्रजायते ॥' इत्याद्युपक्रम्य 'तस्मात्तदभ्यसेन्नित्यमविरक्तेन चेतसा । स विसर्गो महादेवि यत्र विश्रान्तिमर्हति ॥ गुरुवक्त्रं तदेवोक्तं शक्तिचक्रं तदुच्यते । तदेव सर्वमन्त्राणामुत्पत्तिस्थानमुत्तमम् ॥' इत्याद्युक्तम् ॥ २४३॥ २४४॥ पं० १ न चैतदप्रसन्नेन इति पद्यं ग० पुस्तकात् पूरितमस्ति । पं० ११ क० पु० उपलभ्यत इति पाठः । पं० १४ क० पु० अभ्यसन्नित्यं सुविरक्तेनेति पाठः । ३३
२५८ श्रीतन्त्रालोकः । अयमेव च शास्त्रार्थः इत्याह इति ज्ञानचतुष्कं य- त्सिद्धिमुक्तिमहोदयम् । तन्मया तन्यते तन्त्रा- लोकनाम्न्यत्र शासने ॥२४५॥ इतीति तन्त्रालोके - तन्त्राणां पारमेश्वराणाम् आलोक इव आलोकः, तानि आलोकयति प्रकाश- यति इति वा । इति - उक्तस्वरूपं यत् ज्ञानचतुष्कं, किं भूतं ? सिद्धिमुक्त्योर्महान् उदयः अस्मिन् इति कृत्वा महोदयं, तत् अत्र तन्त्रालोके शासने तन्यते - विस्तरेण प्रकाश्यते इत्यर्थः ॥२४५॥ अथ 'तत्र नानुपलब्धेऽर्थे न निर्णीते प्रवर्तते । किं तु संशयिते न्यायस्तदङ्गं तेन संशयः ॥' इत्याद्युक्त्या प्रायः संशयिते एव अर्थे निर्णया- त्मनः शास्त्रस्य प्रणयनमुक्तम् इति संशयस्य तद- ङ्गत्वात् प्रथमं तत्स्वरूपमेव निरूपयितुम् उपक्रमते पं० १४ क० पु० न्यायो न्यायाङ्गं तेनेति पाठः ।
श्लोक २४७] प्रथमाह्निकम् । २५६ तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते । अनुद्घाटितरूपं त- त्पूर्वमेव प्रकाशते ॥२४६॥ अन्तः - मानसविज्ञानादौ, अनुद्घाटितरूप- मिति - अनुल्लिखितविशेषं, सामान्यधर्मात्मकम् इत्यर्थः ॥ २४६ ॥ अयमेव च प्रायः 'संशयः' इत्युच्यते इत्याह तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा । संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा ॥२४७॥ तथा-प्राथमिकत्वेन अनुद्घाटितः करचरणादि- विशेषधर्मानवगमात् अनुन्मुद्रितो योऽसौ ऊर्ध्वता- दिः सामान्यधर्मा आकारः तेन अनिर्वाच्येन अन्य- तरधर्मिविशेषनिश्चयाभावात् उभयांशावलम्बित्वेन पं० १५ क० पु० अन्यतरधर्मे विशेषेति पाठः ।
२६० श्रीतन्त्रालोकः । नियतरूपतया वक्तुमशक्येन आत्मना स्वरूपेण विशिष्टा या प्रथा-प्रतीतिः सा संशयः, स हि ऊर्ध्वतादेः सामान्यात्मनो धर्मस्य अधिगमे वक्र- कोटरत्वादीनां विशेषधर्माणां च अनधिगमे सति उदियात् । तदाह 'कुत्रचित्' इत्यादि-कस्मिंश्चित् सामान्यधर्मावच्छेदिनि धर्मिणि इत्यर्थः । नान्यथा इति-सर्वात्मना निश्चिते धर्मिणि अनिश्चिते वा इति यावत् ॥२४७॥ एतदेव विभज्य दर्शयति एतत्किमिति मुख्येऽस्मि- न्नैतदंशः सुनिश्चितः । संशयोऽस्तित्वनास्त्यादि- धर्मानुद्घाटितात्मकः ॥२४८॥ एतत्किमिति-परामर्शात्मा संशयः, 'स्थाणुर्वा पुरुषो वा' इत्यादिपरामर्शान्तरापेक्षया सर्वेषामेव विशेषधर्माणाम् अनुद्घाटितत्वात् मुख्यः, तत्र च किम् इत्यंशापेक्षया य एतदंशः स धर्मिमात्रग्रहणात् सुष्ठु निश्चितः । ननु पं० ३ क० पु० धर्मस्याप्यधिगमे वक्रकोटरत्वेति च पाठः ।
श्लोक २४८ ] प्रथमाह्निकम् । २६१ ‘नियतोभयांशावलम्बी विमर्शः संशयः ।’ इति संशयस्य लक्षणं, तत्र चेत् एकः कश्चिदंशो निश्चितः तत्कृतं तेन, इत्याह ‘संशयः’ इत्यादि । अ- स्तित्वं च नास्तित्वं च तत् अस्तित्वनास्तित्वमादिर्येषां विशेषधर्माणां तैः अनुद्घाटितः अनुन्मुद्रित आत्मा स्वरूपं यस्य स तथा, यत्र हि सत्त्वासत्त्वाख्ययोरपि धर्मयोरनिश्चितत्वात् उद्घाटनं न वृत्तं तत्र का वार्ता अन्येषां धर्माणां ? इति सर्वेषामेव धर्माणाम् अनुल्लिखिताकारत्वात् नियतधर्मानवलम्बनात् अयं मुख्यः संशयः, किमित्यंशो हि अनुल्लिखितार्थाकारा- भिधायक एव इति भावः ॥२४८॥ तदाह किमित्येतस्य शब्दस्य नाधिकोऽर्थः प्रकाशते । अधिकः इति एतच्छब्दार्थात् ॥ तर्हि किमर्थमुपाधीयते ? इत्याशङ्क्याह पं० २ क० पु० चेत् य एतदंश इति पाठः । पं० ४ क० पु० तदस्तित्वनास्त्यादि इति पाठः । पं० ७ क० पु० निश्चितत्वाद् दुर्घटनं न वृत्तमिति पाठः । पं० १० क० पु० लिखिताकारत्वाभिधायके एव इति पाठः ।
२६२ श्रीतन्त्रालोकः । किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् ॥२४६॥ अयम् इति किं-शब्दः ॥२४६॥ संशयस्य च मुख्यत्वं क्वचिदमुख्यत्वे सात युज्यत इत्यस्यामुख्यत्वमपि दर्शयितुमाह स्थाणुर्वा पुरुषो वेति न मुख्योऽस्त्येष संशयः । भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि ॥२५०॥ न मुख्यः इति - पूर्ववत् सर्वेषामेव धर्मांणाम् अनुद्घाटितरूपत्वाभावात्, यतः स्थाण्वादिनियत- परामर्शन्यथानुपपत्त्या भूयसामस्थाण्वादिवर्तिनां धर्मांणाम् एष निश्चयात्मा प्रत्ययः ॥२५०॥ ननु यद्येवं तर्हि अत्र वा अर्थसंभेदसंभवात् नियतस्य च अनिश्चयात् उदितानुदितहोमन्यायेन विकल्प एव भवेत् ? इत्याशङ्क्याह
पं० ७ क० पु० मुख्यस्त्वेव संशय इति पाठः । पं० ८ क० पु० भूयःसुधर्मेति पाठः । पं० १३ क० पु० धर्मांणामेव निश्चयेति पाठः ।
श्लोक २५१] प्रथमाह्निकम्। २६३ आमर्शनीयद्वैरूप्या- नुद्घाटनवशात्पुनः । संशयः स किमित्यंशे विकल्पस्त्वन्यथा स्फुटः ॥२५१॥ आमर्शनीयं स्थाणुपुरुषलक्षणं यत् द्वैरूप्यं, तस्य अनुद्घाटनं - वक्रकोटरत्वादि विशेषरूपतयानावि- ष्करणं ततोऽयं प्रत्ययः किमित्यंशसंभेदात् संशय एव । 'स्थाणुर्वा पुरुषो वा' इत्यत्र हि किं स्थाणुः किं पुरुषः इत्येव तात्त्विकः संशयार्थः, यदि परमेतत् किमिति केवले किमंशे सर्वेषामेव विशेषधर्माणां अनुद्घाटितरूपत्वात् मुख्यत्वम्, अत्र च निय- तविशेषधर्मानवगमात् अमुख्यत्वम्-इति विशेषः । विकल्पे पुनर्व्रीहियवयोरुभयोरपि निश्चितत्वे सति नानुद्घाटितरूपत्वम्, तदाह 'विकल्पस्त्वन्यथा स्फुटः' इति । अन्यथा इति - आमर्शनीययोर्द्वयोरपि व्रीहियवयोर्विशेषधर्मात्मना निश्चयात्, एवं-विधश्चायं पं० ३ क० पु० किमप्यंशे इति पाठः । पं० १३ ख० पु० उभयोरिन्दोरिति पाठः । पं० १४ क० पु० नान्यतद्रूपत्वमिति पाठः ।
२६४ श्रीतन्त्रालोकः । संशयः शास्त्रप्रवृत्तौ निमित्ततां भजते इत्युक्तप्रायम्। शास्त्रं हि निर्णयात्म, निर्णयश्च प्रायः संदिग्ध एवार्थे प्रवर्तते, नहि उपलब्ध एव संशयविषयता प्रतिपद्यते नानुपलब्धः, संशयस्य च प्रमातृधर्मत्वात् यद्यपि केनचित्संशयानेन संदिग्धोऽर्थः प्रतिपद्यते तदा तस्योपलम्भः स्यात्, तत्प्रतिपादनमेव च प्रश्नः इति सोऽपि स्वकारणवत् शास्त्रप्रवृत्तौ निमित्ततां यायात्, तन्निर्णयाय च प्रारभ्यमाणस्य शास्त्रस्य त्रिविधा प्रवृत्तिः-उद्देशो, लक्षणं, परीक्षा च इति, नामधेयेन पदार्थाभिधानमात्रं चोद्देशः, तस्य च प्रथममवश्यमुपादानं कार्यम्-अनुद्दिष्टस्य लक्षण- परीक्षानुपपत्तेः, अतश्च उद्देशं विना लक्षणपरीक्षाम- शास्त्रस्य प्रणयनमेव न घटते-इत्यस्यापि तत्र अङ्गत्वम् ॥ २५१ ॥ ननु एकेनैव शास्त्रप्रणयनसिद्धेः किमर्थं त्रितयम् ? इति चेत्, न चैतत्-परस्परानुषक्ततयैव अत्र एषां पं० ४ क० पु० धर्मत्वायपि इति पाठः । पं० ११ क० पु० अनुद्दिश्य लक्षणेति पाठः । प० १२ ख० पु० प्राणनायनासिद्धेरिति पाठः ।
श्लोकः २५२] प्रथमाह्निकम् । २६५ निमित्तत्वाभिधानात् । संशयित एव हि अर्थः केन- चिदभिधीयमानः शास्त्रेण उद्देशादिद्वारेण निर्णीयते इति, अत एव च स्वरूपभेदेऽपि एवं शास्त्रप्रवृत्तौ अनुद्घाटितात्मप्रथात्मकेन समानेन रूपेण कारण- त्वमस्ति इति प्रतिपादयितुमाह तेनानुद्घाटितात्मत्व- भावप्रथनमेव यत् प्रथमं स इहोद्देशः प्रश्नः संशय एव च ॥२५२॥ तेन – पूर्वोक्तेन न्यायेन अनुद्घाटितात्मत्वेन भा- वस्य वस्तुमात्रस्य प्रथमं यत् प्रथनं स एव इहोद्देशः – प्रश्नः संशयश्च इति, तत्र संशयस्य तावदेवंरूपत्वं समनन्तरमेव उक्तम्, उद्देशे च अनुद्घाटितत्वेनैव वस्तुनः प्रथनं रूपं – नामधेयमात्रेणैव पदार्थानामभि- धानात् । प्रश्नेऽपि एवं वाच्यम्, अन्यथा हि निर्णया- त्मत्वे प्रतिवचनादस्य विशेषो न स्यात् ॥२५२॥ पं० ७ ख० पु० भावाप्रथनमिति पाठः । पं० ११ क० पु० प्रथमं रूपमिति पाठः । पं० १५ क० पु० प्रश्नस्यैवं वाच्यमिति पाठः । ३४
२६६ श्रीतन्त्रालोकः । तत्र संशयितेऽर्थे प्रश्नः प्रवर्तते, इति तन्निर्णयान- न्तरं निर्णेतव्यः प्रश्नः, इति प्राप्तावसरं तत्सतत्त्वमेव वक्तुमाह तथानुद्घाटिताकार- भावप्रसरवर्त्मना । प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता ॥२५३॥ इह अद्वयनये 'परमार्थसती संविदेव सर्वम्' इति प्रष्टृप्रतिवक्तृरूपगुरुशिष्याद्यात्मनो भेदस्य तावदनु- पपत्तिः इति । तथा पूर्वोक्तेन प्रकारेण अनुद्घाटि- ताकारः - सर्वभावनिर्भरत्वात् संविदेकरूपो, योऽसौ भावः - पारमार्थिकं पूर्णस्वभावं वस्तु, तस्य यः प्रसरः - पश्यन्त्यादिदशाक्रमेण अवरोहः, तदेव वर्त्म, तेन प्रसरन्ती - वैखर्यादिरूपतामासादयन्ती, स्वसंविदेव, संकुचिता, प्रमात्रात्मशिष्यभूमिकाम् अवभासयन्ती 'प्रष्ट्री' इत्युच्यते इत्यर्थः ॥२५३॥ कुत्र कथं चास्याः प्रष्टृत्वम् ? इत्याह पं० १३ क० पु० क्रमेण नावरोह इति पाठः ।
श्लोकः २५५ ] प्रथमाह्निकम् । २६७ तथान्तरपरामर्श- निश्चयात्मतिरोहितेः । प्रसरानन्तरोद्भूत- संहारोदयभागपि ॥२५४॥ यावत्येव भवेद्बाह्य- प्रसरे प्रस्फुटात्मनि । अनुन्मीलितरूपा सा षष्टी तावति भरायते ॥२५५॥ तथा – परमाद्वयमयत्वेन, आन्तरः – प्रमात्रैकात्म्य- रूपो, योऽसौ परामर्शः, तस्य निश्चयो – दाढ्यं, तदात्मनस्तिरोहितेः – उत्तरोत्तरस्य रूपस्य पूर्वपूर्व- त्रानवस्थितेः, प्रसरात् – बाह्योन्मुख्यात्, अनन्तर- मुद्भूतौ यौ संहारश्च – पराद्यात्मनो रूपस्य स्वात्मन्येव विश्रान्तिः, उदयश्च – पश्यन्त्याद्यात्मना रूपेण बहिरुद्भवः तौ भजते, तद्रूपा हि सा संवित् यावति प्रस्फुटात्मनि – ग्राह्यग्राहकयुगलकाद्याभासस्वभावे पं० ६ क० पु० अस्फुटात्मता इति पाठः । पं० १३ ख० पु० संहार उदयश्च पराद्यात्मना रूपेण बहिरुद्भवस्तावितीयान् पाठः ।
२६८ श्रीतन्त्रालोकः । बाह्यप्रसरे, अनुन्मीलितरूपा - संविद्रूपत्वेन अनव- भासमाना भवेत्, तावत्येव अनुद्घाटितात्मत्वेन प्रथनात् 'प्रष्ट्री' इत्युच्यते इत्यर्थः ॥२५४॥२५५॥ न केवलं संविदः प्रष्टृत्वमेव अस्ति, यावत् प्रश्ना- दिरूपत्वमपि इत्याह स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः । गुरुशिष्यपदेऽप्येष देहभेदो ह्यतात्त्विकः ॥२५६॥ तदुक्तं 'गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः । पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयत् ॥' इति । तथा 'प्रष्ट्री च प्रतिवक्त्री च स्वयं देवी व्यवस्थिता ।' इति । ननु गुरुशिष्ययोः परस्परं भेदः साक्षा- दुपलभ्यते इति किं नाम अनयोर्बोधरूपत्वम् ? पं० १ ख० पु० रूपेणावभासमानेति पाठः । पं० १२ क० पु० वाक्यैस्तन्त्रमाधारभेदत इति पाठः । पं० १४ क० पु० द्वयं देवीति पाठः । पं० १६ क० पु० अनयोरभेदरूपत्वमिति पाठः ।
श्लोकः २५८ ] । प्रथमाह्निकम् । २६८ इत्याह – एष इत्यादि । अतात्त्विकः इति अवास्तवः । बोध एव हि स्वस्वातन्त्र्यमाहात्म्यात् स्वात्मनि तत्तद्देहादिभावम् आभासयति इति भावः ॥२५६॥ तदाह बोधो हि बोधरूपत्वा- दन्तर्नानाकृतीः स्थिताः । बहिराभासयत्येव द्राक्सामान्यविशेषतः ॥२५७॥ बोधात्मा परमेश्वरो हि बोधनक्रियाकर्तृत्वलक्ष- णात् बोधरूपत्वात् अन्तःस्थिता नानाकृतीः – तत्तद्भावजातं, द्राक् – अनन्यापेक्षितया निर्विलम्बन- मेव, सामान्यविशेषरूपत्वेन, बहिः – विच्छेदेन, अव- भासयत्येव इति वाक्यार्थः ॥२५७॥ तत्र सामान्यस्य किं नाम बहिरवभासनम् ? इत्याह स्रक्ष्यमाणाविशेषांशा- कांक्षायोग्यस्य कस्यचित् । पं० ११ क० पु० निरवलम्बमेवेति पाठः । पं० १४ क० पु० बहिरवभानमिति पाठः ।
२७० श्रीतन्त्रालोकः । धर्मस्य सृष्टिः सामान्य- सृष्टिः सा संशयात्मिका ॥२५८॥ स्रक्ष्यमाणाः - स्वालक्षण्येन उल्लासयिष्यमाणा, ये विशेषांशाः, तत्र 'निर्विशेषं हि सामान्यं भवेच्छशविषाणवत् ।' इत्याद्युक्तयुक्त्या तदविनाभावित्वेन आकांक्षा - औन्मुख्यं, तत्र योग्यस्य - तदौन्मुख्याभावेऽपि सर्व- गतत्वात् तत्स्वरूपानपायात् अनुगुणस्य, कस्यचित् नियतस्य गोत्वादेः धर्मस्य, बहिरवभासनात्मा सृष्टिः सामान्या सृष्टिः, सा एव च अनुद्घाटितात्म- प्रथारूपत्वात् 'संशयः' इति - विशेषाकांक्षानुगुण- सामान्यप्रतीतिरेव संशयप्रतीतिः इत्यर्थः ॥२५८॥ एवं विशेषसृष्टिरपि निश्चयप्रतीतिरूपा इत्याह स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा । निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः ॥२५९॥ पं० १६ क० पु० निर्णये मातृरुचिते इति पाठः ।
श्लोकः २६० ] प्रथमाह्निकम् । २७१ यदा पुनर्निश्चयोपयोगिनां सर्वविशेषाणां सृष्ट- त्वात् स्रक्ष्यमाणो विशेषांश उपरमेत् - विशेषविषया सृष्टिः समाप्येत, तदा स एव उद्घाटितात्मप्रथा- रूपत्वात् 'स्थाणुरेवायम्' इति प्रत्ययात्मा निश्चयः स्यात् । एतदुत्पादे च प्रमातुरिच्छैव निबन्धनम् इत्युक्तं 'मातुरुचितः' इति । प्रमाता हि यावदेव 'ज्ञातं मया' इति परितुष्येत्, तावदेव निश्चितं भवति इति भावः, अन्यथा पुनः स कदाचिदपि न भवेत् - प्रमात्रिच्छायामेवाविश्रान्तेः । तदाह 'नान्यथा कल्पकोटिभिः' इति ॥ २५६ ॥ न केवलमस्य निश्चयमात्ररूपत्वमेवास्ति, यावल्ल- क्षणादिरूपत्वमपि इत्याह तस्याथ वस्तुनः स्वात्म- वीर्याक्रमणापाटवात् । उन्मुद्रणां तयाकृत्या लक्षणोत्तरनिर्णयाः ॥२६०॥ पं० ५ क० पु० प्रमात्रिच्छयैव निर्बन्ध इति पाठः । पं० ९ क० ग० पु० मात्रिच्छायामेव विश्रान्तेरिति पाठः । पं० ११ ख० पु० निश्चयमात्रत्वमिति पाठः । पं० १६ क० पु० निर्णयमिति पाठः ।
२७२ श्रीतन्त्रालोकः । तस्य – विशेषात्मनो वस्तुनो, यत् स्वात्मनो वीर्यं – तदितरपरावृत्तत्वं, तस्य आक्रमणं – स्वात्मना विष- यीकरणं, तत्र पाटवं – नैराकांक्ष्यात्तीव्रत्वं, ततो यत् तेनैव आकारेण उन्मुद्रणं – प्रतिनियतस्वस्वरूपावि- ष्करणं, तत् उद्घाटितात्मप्रथामयत्वस्य अविशेषात् 'लक्षणम्' इति 'उत्तरम्' इति 'निर्णय' इति चोच्यते । तत्र – असाधारणस्तत्त्वावबोधको धर्मो लक्षणं, तत्त्वावबोधोपकरणं दूषणोद्धरणमुत्तरं, तत्त्वावबोधो निर्णयः ॥२६०॥ ननु तत्त्वावबोधसारत्वस्य अविशेषात्, परीक्षापि लक्षणेनैव निर्णयवत् कथं न संगृहीता ? इत्याशङ्क्याह निर्णीततावद्धर्मांश- पृष्ठपातितया पुनः । भूयो भूयः समुद्देश- लक्षणात्मपरीक्षणम् ॥२६१॥ पं० १ क० पु० स्वात्मवीर्यमिति समस्तपाठः । पं० ५ क० पु० तदुद्घाटिताऽप्रथममयत्वेति पाठः । पं० ११ क० पु० नियतवत्कथमिति पाठः । पं० १२ ख० पु० निर्णीतं तावदिति पाठः ।
श्लोक २६३ ] प्रथमाह्निकम् । २७३ निर्णीतो - निर्णयविषयीकृतः, तावान् - नियत- लक्षणलक्ष्यो, योऽसौ धर्मांशः - तद्विषयतया पौनः- पुन्येन यः समुद्देशः, यच्च लक्षणं - साधारणासाधा- रणधर्मनिरूपणं, तदात्मकं, पुनः परितः - सर्वतो निःशेषप्रतिपन्नप्रतिनेपेण ईक्षणं - परीक्षा इति वाक्यार्थः ॥२६१॥ एतच्च उद्देशादित्रयं सर्वत्रैवास्ति इत्याह दृष्टानुमानौपम्याप्त- वचनादिषु सर्वतः । उद्देशलक्षणावेक्षा- त्रितयं प्राणिनां स्फुरेत् ॥२६२॥ एतदेव क्रमेण दर्शयति निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः । परीक्षणं तथाध्यक्षे विकल्पानां परम्परा ॥२६३॥ पं० २ क० पु० लक्षणलक्ष्यो योशो धर्मेति पाठः । पं० ५ क० पु० प्रतिनेपेण लक्षणमिति पाठः । पं० ६ क० पु० सर्वश इति पाठः । पं० १४ क० पु० विकल्पे प्रीणितं स्फुरेदिति पाठः । ३५
२७४ । श्रीतन्त्रालोकः । नगोऽयमिति चोद्देशो धूमित्वादग्निमानिति । लक्ष्यं व्याप्त्यादिविज्ञान- जालं त्वत्र परीक्षाम् ॥२६४॥ उद्देशोऽयमिति प्राच्यो गोतुल्यो गवयाभिधः । इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥२६५॥ स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् । अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी ॥२६६॥ उद्देशः इति – आलोचनमात्रस्य अनुद्घाटितात्म- प्रथारूपत्वात् । लक्षणम् इति – नीलमिति विकल्पेन निर्विकल्पस्यैव उद्घाटितात्मप्रथारूपत्वात् । विकल्पा- नाम् इति – अर्थक्रियाज्ञानपूर्वापरभाविनाम्, तत एव पं० ६ क० पु० गोतुल्ये गवयाभिध इति पाठः । पं० १० ख० पु० यजेतेस्य स्वलक्षणमिति पाठः ।
श्लोक १६६ ] प्रथमाह्निकम् । २७५ च अर्थतथात्वनिश्चयोत्पादः इत्येषां परीक्षात्वम् । उद्देशः इति – नगोऽयम् इति धर्मिमात्रस्यैव अनुद्घा- टितसाध्यधर्मात्मत्वेन प्रथनात् । लक्ष्यमिति – साध्य- धर्मविशिष्टतया उद्घाटितात्मप्रथारूपत्वात् । व्या- प्तिः– अन्वयव्यतिरेकौ, तद्वशादेव हि साध्यसाधनयो- रविनाभावनिश्चयोत्पादः इत्यस्याः परीक्षात्मत्वम् । अयमिति – पुरोवर्त्तिनः पिण्डमात्रस्य अनुद्घाटिता- त्मत्वेन प्रथनात् । प्राच्यः इति – प्रथमो धर्मिविशेषान- वच्छिन्नः इति यावत् । गोतुल्योऽयम् इति – प्रमा- णदशायां, गवयशब्दवाच्योऽयम् इति – फलदशायां च विशेषावच्छेदस्य भावित्वात् । वा-शब्दः समुच्चये, तेन प्रमाणदशायाः फलदशायाश्च उद्घाटितात्म- प्रथारूपत्वात् लक्षणत्वम् । शेषः इति – सास्नादिम- द्वाहदोहादिकारी इत्यादिः परामर्शः । ईदृक् इति – स्वःकामः इत्येव । अस्य इति – स्वःकामस्य । लक्ष- पं० १ क० पु० इत्येषा परीक्षोद्देश इति पाठः । पं० ५ क० ख० साध्यवर्तिसाधनेति पाठः । पं० ६ ख० पु० इत्यस्य परीक्षात्वमिति पाठः । पं० ११ क० पु० विशेषावच्छेदभावित्वादिति पाठः । पं० १३ ख० पु० सास्नादिमत्वमाह दोहाधिकारीति पाठः ।