तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 279, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः २५८ ] । प्रथमाह्निकम् । २६८ इत्याह – एष इत्यादि । अतात्त्विकः इति अवास्तवः । बोध एव हि स्वस्वातन्त्र्यमाहात्म्यात् स्वात्मनि तत्तद्देहादिभावम् आभासयति इति भावः ॥२५६॥ तदाह बोधो हि बोधरूपत्वा- दन्तर्नानाकृतीः स्थिताः । बहिराभासयत्येव द्राक्सामान्यविशेषतः ॥२५७॥ बोधात्मा परमेश्वरो हि बोधनक्रियाकर्तृत्वलक्ष- णात् बोधरूपत्वात् अन्तःस्थिता नानाकृतीः – तत्तद्भावजातं, द्राक् – अनन्यापेक्षितया निर्विलम्बन- मेव, सामान्यविशेषरूपत्वेन, बहिः – विच्छेदेन, अव- भासयत्येव इति वाक्यार्थः ॥२५७॥ तत्र सामान्यस्य किं नाम बहिरवभासनम् ? इत्याह स्रक्ष्यमाणाविशेषांशा- कांक्षायोग्यस्य कस्यचित् । पं० ११ क० पु० निरवलम्बमेवेति पाठः । पं० १४ क० पु० बहिरवभानमिति पाठः ।