तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 280, कुल 368 में से
संदर्भ में पढ़ें२७० श्रीतन्त्रालोकः । धर्मस्य सृष्टिः सामान्य- सृष्टिः सा संशयात्मिका ॥२५८॥ स्रक्ष्यमाणाः - स्वालक्षण्येन उल्लासयिष्यमाणा, ये विशेषांशाः, तत्र 'निर्विशेषं हि सामान्यं भवेच्छशविषाणवत् ।' इत्याद्युक्तयुक्त्या तदविनाभावित्वेन आकांक्षा - औन्मुख्यं, तत्र योग्यस्य - तदौन्मुख्याभावेऽपि सर्व- गतत्वात् तत्स्वरूपानपायात् अनुगुणस्य, कस्यचित् नियतस्य गोत्वादेः धर्मस्य, बहिरवभासनात्मा सृष्टिः सामान्या सृष्टिः, सा एव च अनुद्घाटितात्म- प्रथारूपत्वात् 'संशयः' इति - विशेषाकांक्षानुगुण- सामान्यप्रतीतिरेव संशयप्रतीतिः इत्यर्थः ॥२५८॥ एवं विशेषसृष्टिरपि निश्चयप्रतीतिरूपा इत्याह स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा । निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः ॥२५९॥ पं० १६ क० पु० निर्णये मातृरुचिते इति पाठः ।