तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 281, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः २६० ] प्रथमाह्निकम् । २७१ यदा पुनर्निश्चयोपयोगिनां सर्वविशेषाणां सृष्ट- त्वात् स्रक्ष्यमाणो विशेषांश उपरमेत् - विशेषविषया सृष्टिः समाप्येत, तदा स एव उद्घाटितात्मप्रथा- रूपत्वात् 'स्थाणुरेवायम्' इति प्रत्ययात्मा निश्चयः स्यात् । एतदुत्पादे च प्रमातुरिच्छैव निबन्धनम् इत्युक्तं 'मातुरुचितः' इति । प्रमाता हि यावदेव 'ज्ञातं मया' इति परितुष्येत्, तावदेव निश्चितं भवति इति भावः, अन्यथा पुनः स कदाचिदपि न भवेत् - प्रमात्रिच्छायामेवाविश्रान्तेः । तदाह 'नान्यथा कल्पकोटिभिः' इति ॥ २५६ ॥ न केवलमस्य निश्चयमात्ररूपत्वमेवास्ति, यावल्ल- क्षणादिरूपत्वमपि इत्याह तस्याथ वस्तुनः स्वात्म- वीर्याक्रमणापाटवात् । उन्मुद्रणां तयाकृत्या लक्षणोत्तरनिर्णयाः ॥२६०॥ पं० ५ क० पु० प्रमात्रिच्छयैव निर्बन्ध इति पाठः । पं० ९ क० ग० पु० मात्रिच्छायामेव विश्रान्तेरिति पाठः । पं० ११ ख० पु० निश्चयमात्रत्वमिति पाठः । पं० १६ क० पु० निर्णयमिति पाठः ।