भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 278, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 278

२६८ श्रीतन्त्रालोकः । बाह्यप्रसरे, अनुन्मीलितरूपा - संविद्रूपत्वेन अनव- भासमाना भवेत्, तावत्येव अनुद्घाटितात्मत्वेन प्रथनात् 'प्रष्ट्री' इत्युच्यते इत्यर्थः ॥२५४॥२५५॥ न केवलं संविदः प्रष्टृत्वमेव अस्ति, यावत् प्रश्ना- दिरूपत्वमपि इत्याह स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः । गुरुशिष्यपदेऽप्येष देहभेदो ह्यतात्त्विकः ॥२५६॥ तदुक्तं 'गुरुशिष्यपदे स्थित्वा स्वयं देवः सदाशिवः । पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं समवतारयत् ॥' इति । तथा 'प्रष्ट्री च प्रतिवक्त्री च स्वयं देवी व्यवस्थिता ।' इति । ननु गुरुशिष्ययोः परस्परं भेदः साक्षा- दुपलभ्यते इति किं नाम अनयोर्बोधरूपत्वम् ? पं० १ ख० पु० रूपेणावभासमानेति पाठः । पं० १२ क० पु० वाक्यैस्तन्त्रमाधारभेदत इति पाठः । पं० १४ क० पु० द्वयं देवीति पाठः । पं० १६ क० पु० अनयोरभेदरूपत्वमिति पाठः ।