तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 284, कुल 368 में से
संदर्भ में पढ़ें२७४ । श्रीतन्त्रालोकः । नगोऽयमिति चोद्देशो धूमित्वादग्निमानिति । लक्ष्यं व्याप्त्यादिविज्ञान- जालं त्वत्र परीक्षाम् ॥२६४॥ उद्देशोऽयमिति प्राच्यो गोतुल्यो गवयाभिधः । इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥२६५॥ स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् । अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी ॥२६६॥ उद्देशः इति – आलोचनमात्रस्य अनुद्घाटितात्म- प्रथारूपत्वात् । लक्षणम् इति – नीलमिति विकल्पेन निर्विकल्पस्यैव उद्घाटितात्मप्रथारूपत्वात् । विकल्पा- नाम् इति – अर्थक्रियाज्ञानपूर्वापरभाविनाम्, तत एव पं० ६ क० पु० गोतुल्ये गवयाभिध इति पाठः । पं० १० ख० पु० यजेतेस्य स्वलक्षणमिति पाठः ।