तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 285, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १६६ ] प्रथमाह्निकम् । २७५ च अर्थतथात्वनिश्चयोत्पादः इत्येषां परीक्षात्वम् । उद्देशः इति – नगोऽयम् इति धर्मिमात्रस्यैव अनुद्घा- टितसाध्यधर्मात्मत्वेन प्रथनात् । लक्ष्यमिति – साध्य- धर्मविशिष्टतया उद्घाटितात्मप्रथारूपत्वात् । व्या- प्तिः– अन्वयव्यतिरेकौ, तद्वशादेव हि साध्यसाधनयो- रविनाभावनिश्चयोत्पादः इत्यस्याः परीक्षात्मत्वम् । अयमिति – पुरोवर्त्तिनः पिण्डमात्रस्य अनुद्घाटिता- त्मत्वेन प्रथनात् । प्राच्यः इति – प्रथमो धर्मिविशेषान- वच्छिन्नः इति यावत् । गोतुल्योऽयम् इति – प्रमा- णदशायां, गवयशब्दवाच्योऽयम् इति – फलदशायां च विशेषावच्छेदस्य भावित्वात् । वा-शब्दः समुच्चये, तेन प्रमाणदशायाः फलदशायाश्च उद्घाटितात्म- प्रथारूपत्वात् लक्षणत्वम् । शेषः इति – सास्नादिम- द्वाहदोहादिकारी इत्यादिः परामर्शः । ईदृक् इति – स्वःकामः इत्येव । अस्य इति – स्वःकामस्य । लक्ष- पं० १ क० पु० इत्येषा परीक्षोद्देश इति पाठः । पं० ५ क० ख० साध्यवर्तिसाधनेति पाठः । पं० ६ ख० पु० इत्यस्य परीक्षात्वमिति पाठः । पं० ११ क० पु० विशेषावच्छेदभावित्वादिति पाठः । पं० १३ ख० पु० सास्नादिमत्वमाह दोहाधिकारीति पाठः ।