तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 286, कुल 368 में से
संदर्भ में पढ़ें२७६ श्रीमत्तन्त्रालोकः । णाम् इति-अधिकारानुबन्धस्य विषयानुबन्धमन्त- रेणानिर्णयात् । शेषवर्तिनी इति 'शेषः परार्थत्वात् ।' इति वचनात् सा अर्थवादव्यापारात्मा इति कर्तव्य- ता इत्यर्थः । परीक्षात्वं चात्र-उद्दिष्टलक्षितस्वर्ग- कामाधिकारनिस्तुषीकरणत्वात् ॥ २६३ ॥ २६४ ॥ २६५ ॥ २६६ ॥ ननु स्त्रक्ष्यमाणविशेषाकांक्षानुगुणसामान्यसृष्टिः 'उद्देशः' इत्युक्तं, न च विशेषस्य आकांक्षणीयत्वमु- चितं-तदानीं तस्य भविष्यत्तया वार्तामात्रस्यापि अभावात् ? इत्याशङ्कां सोपस्कारप्रागुक्तलक्षणानु- वादपुरःसरं प्रतिक्षिपति । विकल्पस्रक्ष्यमाणान्य- रुचितांशसहिष्णुनः । वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता ॥ २६७ ॥ पं० २ क० पु० शेषवर्तिनेति शेष इति पाठः । पं० ६ क० पु० निस्तुषीकरणवदिति पाठः । पं० १० क० पु० तदानीन्तनस्येति पाठः । पं० १४ क० पु० सहिष्णव इति पाठः ।