तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
२७६ श्रीमत्तन्त्रालोकः । णाम् इति-अधिकारानुबन्धस्य विषयानुबन्धमन्त- रेणानिर्णयात् । शेषवर्तिनी इति 'शेषः परार्थत्वात् ।' इति वचनात् सा अर्थवादव्यापारात्मा इति कर्तव्य- ता इत्यर्थः । परीक्षात्वं चात्र-उद्दिष्टलक्षितस्वर्ग- कामाधिकारनिस्तुषीकरणत्वात् ॥ २६३ ॥ २६४ ॥ २६५ ॥ २६६ ॥ ननु स्त्रक्ष्यमाणविशेषाकांक्षानुगुणसामान्यसृष्टिः 'उद्देशः' इत्युक्तं, न च विशेषस्य आकांक्षणीयत्वमु- चितं-तदानीं तस्य भविष्यत्तया वार्तामात्रस्यापि अभावात् ? इत्याशङ्कां सोपस्कारप्रागुक्तलक्षणानु- वादपुरःसरं प्रतिक्षिपति । विकल्पस्रक्ष्यमाणान्य- रुचितांशसहिष्णुनः । वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता ॥ २६७ ॥ पं० २ क० पु० शेषवर्तिनेति शेष इति पाठः । पं० ६ क० पु० निस्तुषीकरणवदिति पाठः । पं० १० क० पु० तदानीन्तनस्येति पाठः । पं० १४ क० पु० सहिष्णव इति पाठः ।
श्लोक २६८ ] प्रथमाह्निकम्। २७७ तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता । विकल्पेन – तत्प्रधानेन प्रमात्रा सामान्यस्य सृष्ट- त्वात्, तदपेक्षया स्रक्ष्यमाणाः – लक्षणात् उल्लस- यिष्यमाणा, अत एव अन्ये – ये सामान्यव्यतिरिक्ताः प्रमातुः संतोषादायकत्वाच्च, रुचिता – इष्टाः, ये अंशा – विशेषाः, तान् – अर्थात् व्याप्यत्वेन सहते तच्छीलं यत् तस्यैवंविधस्य सामान्यात्मनो वस्तुनः, तथात्वेन – स्रक्ष्यमाणत्वादिविशेषणविशिष्टविशेष- सहिष्णुत्वेन, या सृष्टिः, तस्या उद्देशः – अभिधानं, तत्र यावतः आकांक्षणीयस्य विशेषस्य स्रक्ष्यमाणता तावत्, तदैव – उद्देशावसरे, संविच्चिनुते – अनुसंधत्ते इत्यर्थः ॥२६७॥ तत्र हेतुः यतो ह्यकालकलिता संधत्ते सार्वकालिकम् ॥२६८॥ हि-शब्दो वाक्यालङ्कारे ॥२६८॥ पं० ३ क० पु० विकल्पे तत्प्रधानेति पाठः ।
२७८ श्रीतन्त्रालोकः । ननु उद्घातितात्मप्रथारूपत्वे सति लक्षणस्य सामान्यविशेषयोर्द्वयोरपि प्रथनात् किं लक्ष्यं ? किं वा लक्षणम् ? इत्यत्र विवेकाभावादनियमः* स्यात् इत्याशंक्याह स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहतिः । अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते ॥२६६॥ इह विशेषसामान्यविषयसृष्टिसंहृतिमयी संवित् लक्षणं - व्यवहरणबीजमिति । तत्र सृज्यमानस्य विशेषांशस्य विधेयतया लक्षणत्वं वाच्यं, संह्रिय- माणस्य च सामान्यांशस्य अनूद्यमानतया लक्ष्य- त्वम् इत्यस्त्येव विवेकः ॥२६६॥ ननु 'भूयो भूयः समुद्देशलक्षणात्म परीक्षणम् ।' *यदि च पूर्वमनुल्लिखितविशेषा सामान्यस्थितिः पश्चाद्विशेषोदयः तदा सामान्य- विशेषयोर्वैविक्त्येन प्रथनाल्लक्ष्यलक्षणभावो व्यवस्थित एव, यदा तु पूर्वमपि सामा- न्यावस्थायां विशेषावस्थितिस्तदा परस्परमत्र नियमाभाव इति 'एकत्र द्वियोगः संकरा- ख्यदोषदूषितः संभवेदिति भावः ।' पं० १० क० ग० पु० लक्षणव्यवहरणबीजं सा इति पाठः ।
श्लोक २७१ ] प्रथमाह्निकम् । २७६ इत्युक्तं, तत्र च विरामनिमित्ताभावात् परीक्षाया अविश्रान्तिरेव स्यात् ? इत्याशङ्कामनुवादगर्भां प्रतिक्षिपति तत्तृष्टपातिभूयोंश- सृष्टिसंहारविभ्रमाः । परीक्षा कथ्यते मातृ- रुचिता कल्पितावधिः ॥२७०॥ ननु तत्र तत्र प्रत्यक्षादौ क्रमेण पश्यन्ती-मध्यमा- वैखरीरूपतया स्वात्मचमत्कारमयी विमर्शशक्तिरेव विजृम्भते इत्युक्तं, तत्कथमिह उद्देशाद्यात्मना स्वसिद्धान्ताप्रसिद्धं क्रमान्तरमासूत्रितम् ? इत्याशं- क्याह प्राक्पश्यन्त्यथ मध्यान्त्या वैखरी चेति ता इमाः । परा परापरा देवी चरमा त्वपरात्मिका ॥२७१॥ पं० ७ क० पु० कल्पितो विधिरिति पाठः । पं० ३ क० पु० चमत्कारमात्रविमर्शोति पाठः । पं० १६ क० पु० त्वपरा मता इति पाठः ।
२८० श्रीतन्त्रालोकः । ननु संख्यासाम्यमात्रादेव उद्देशादित्रयस्य पश्य- न्त्यादिरूपत्वम्, इति किमिदम् ? इत्याशंक्याह ❊इच्छादि शक्तित्रितय- मिदमेव निगद्यते । पूर्वेण संबन्धः । एतत्प्राणित एवायं व्यवहारः प्रतायते ॥२७२॥ सकलः खलु अयं शुद्धाशुद्धात्मा व्यवहारः सं- विद्भित्तावेव अवभासते इति भावः । तदुक्तं 'इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ । समलो विमलो वापि व्यवहारोऽनुभूयते ॥' इति ॥२७२॥ न केवलमेषाम् एवं-रूपत्वं, यावत् 'परो महानन्तरालो दिव्यो मिश्रस्त्वदिव्यकः । संबन्धः षड्विधस्तन्त्रे....................॥' इत्यादिना उक्तस्य संबन्धस्यापि, इत्याह ❊ तदियानत्रार्थः - य एव पशुप्रमातृभी रुद्देशादित्रयरूपतया विकल्पत्वेन व्यवहारो निर्दिष्टः स एवात्र इच्छादिरूपतया विमल एव उपादेयत्वेन कथितः । पं० १० क० पु० इत्यमित्यर्थभिन्नेति, ख० पु० इत्थमत्यन्तभिन्नार्थेति पाठः । पं० १४ क० पु० मिश्रस्त्वमिश्रक इति पाठः ।
श्लोक २७४ ] प्रथमाह्निकम् । २८१ एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने । परसंबन्धरूपत्व- मभिसंबन्धपञ्चके ॥२७३॥ एते समनन्तरोक्ततत्त्वे ये प्रश्नोत्तरे ते आत्मा स्वरूपं यस्य तस्य भावस्तत्त्वं, तस्मिन्सति इत्यर्थः । प्रष्टृतद्वक्तोरेव संबन्धो भवति इति भावः । संबन्ध- पञ्चके इति महदादिके । षष्ठो हि परः संबन्धः सर्वेषामेव एषाम् अनुप्राणकत्वेन अनुवर्तते, इति पृथगिह नोक्तः ॥ २७३ ॥ एतच्च स्वोपज्ञमस्माभिर्नोक्तम्, इत्याह यथोक्तं रत्नमालायां सर्वः परकलात्मकः । महानवान्तरो दिव्यो मिश्रोऽन्योऽन्यस्तु पञ्चमः ॥२७४॥ रत्नमालायाम् इति — श्रीकुलरत्नमालायाम्, उक्तम् इति अर्थतो, न तु शब्दतः । तत्र पं० १५ क० पु० मिश्रोऽन्योर्थस्तु पञ्चमेति पाठः । ३६
२८२ श्रीतन्त्रालोकः । 'अदृष्टं निर्गुणं यच्च हेयोपादेयवर्जितम् । तत्तत्त्वं सर्वतत्त्वानां प्रधानं परिपठ्यते ॥ अदृष्टविग्रहश्चैव स शान्त इति गीयते । तस्येच्छा निर्गता शक्तिस्तद्धर्मगुणसंयुता ॥' इत्यादिना पारमेश्वरी परा शक्तिरेव तत्तत्संबन्धात्मना प्रसृता इति सर्वस्यैव महदादेः संबन्धस्य परकला- त्मकत्वमुक्तम् । अत एव च एतदेव 'सृष्टिमार्गानुसारेण आयातश्चावनीतले । कथितो देवि षष्ठस्तु यथावेशस्वरूपतः ॥' इत्यनेन उपसंहृतम् । मिश्रॊ - दिव्यादिव्यः । अन्यो- ऽन्यः इति - दिव्यापेक्षया अन्यो मिश्रः, तस्मादन्यो- ऽपि अदिव्यः इति । दिव्य-दिव्यादिव्य-अदिव्यात्मना त्रिधैव हि संभवति विकल्पः । अत एवायमत्र इतरे- तरशब्देन उक्तः । तदुक्तं 'महानवान्तरो दिव्यो दिव्यादिव्यश्चतुर्थकः । इतरेतरमार्गेण पञ्चधा भिन्नलक्षणः ॥' इति । एतच्च संबन्धपञ्चकं शिवात् सदाशिवस्य, पं० १ क० पु० आमृष्टमिति पाठः । पं० ६ क० पु० महदाद्यैः संबन्धस्य इति, पराकलात्मकत्वमिति च पाठः । पं० १० क० पु० इत्यत्रोपसंहतमिति पाठः ।
श्लोक २७४ ] प्रथमाह्निकम् । २८३ तस्मात् अनन्तनाथस्य, तस्मात् श्रीकण्ठनन्दिकुमा- रादीनां, तेभ्योऽपि सनत्कुमारादीनामृषीणां, तेभ्यो- ऽपि मनुष्यादीनां क्रमेण अवगन्तव्यम् । यदुक्तं तत्रैव 'शिवस्य परिपूर्णस्य परस्यामिततेजसः । तच्छक्तिश्चैव सादाख्या स्वेच्छाकर्तृत्वगोचरा ॥ सत्त्वं तेन च संप्राप्तं संबन्धं प्रथमं विदुः । अवान्तरश्च योगेन सादाख्यात्क्रमशः पुनः ॥ प्राप्तोऽनन्तेशदेवेन द्वितीयस्तेन कीर्तितः । तृतीयस्तु पुनर्देवि श्रीकण्ठो नन्दिना सह ॥ द्वाभ्यां देवात्तु मत्वैवं तेन दिव्यः प्रकीर्तितः । ऋषीणां च समासेन नन्दिना प्रतिपादितम् ॥ चतुर्थस्तु भगवता दिव्यादिव्यः प्रकीर्तितः । व्याख्यानक्रमयोगेन विद्यापीठप्रपूजने ॥ शिष्याचार्यस्वरूपेण पञ्चमस्त्वितरेतरः । इति पञ्चप्रकारोऽयं संबन्धः परिकीर्तितः ॥' इति ॥२७४॥ परकलात्मत्वमेव व्याचष्टे भिन्नयोः प्रष्टृतद्वक्त्रो- श्चैकात्म्यं यत्स उच्यते । पं० ६ क० पु० सतत्त्वं तेनेति पाठः । पं० १० क० पु० देवात्तमप्येवमिति पाठः । पं० १२ क० पु० चतुर्थस्तद्भगवतेति पाठः ।
२८४ श्रीतन्त्रालोकः । प्रष्टा यथा सदाशिवो, वक्ता यथा शिवः, तच्छ- ब्देन प्रश्नक्रियापरामर्शः, तयोर्भिन्नत्वेऽपि तावत्यर्थे संविदाढ्यैकात्म्यात् संबन्धः - तस्य भेदाभेदरूप- त्वात्, ऐकात्म्यभावे यदा भेदगन्धस्यापि विगल- नात् सर्वात्मतालक्षणा पूर्णता स्यात् तदा परः संबन्धः ॥ तदाह संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी ॥२७५॥ परता हि पूर्णैकात्म्यप्रथालक्षणा । पूर्णे हि सर्वमस्ति, सर्वत्र च पूर्णमस्ति इत्येतत् पञ्चस्वपि संबन्धेषु अस्ति इति युक्तमुक्तं 'सर्वः परकलात्मकः' इति । तदुक्तं 'संबन्धः परमेशानि सर्वः परकलामयः । महानवान्तरो दिव्यो मिश्रोऽदिव्यश्च तत्परः ॥' इति ॥२७५॥ संबन्धान्तरेष्वपि एतदेवातिदिशति पं० ४ क० पु० ऐकात्म्यं च यदेति पाठः । पं० ५ क० पु० सर्वसर्वात्मतालक्षणा पूर्णापूर्णता स्यादिति पाठः ।
श्लोकः २७८ ] प्रथमाह्निकम् । २८५ अनेनैव नयेन स्या- त्सम्बन्धान्तरमप्यलम् । शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः ॥२७६॥ एतदेव संकलयति इत्थं संविदियं देवी स्वभावादेव सर्वदा । उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी ॥२७७॥ इत्थम्-उक्तेन प्रकारेण, सर्वदा संविदेव इयं भग- वती स्वस्वातन्त्र्यात् उद्देशादित्रयप्राणेन सर्वात्मना शास्त्रेण स्वरूपिणी-शास्त्रात्मना संविदेव अवभा- सते इत्यर्थः ॥२७७॥ तत्र उद्देशस्वरूपमेव तावदाह तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान् । पं० १ क० पु० अनेनैव त्रयेणेति पाठः । पं० ११ घ० पु० स्वातन्त्र्यात् आदेशादीति पाठः ।
२८६ श्रीतन्त्रालोकः । विज्ञानभिद्गतोपायः परोपायस्तृतीयकः ॥२७८॥ शाक्तोपायो नरोपायः कालोपायोऽथ सप्तमः । चक्रोदयोऽथ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् ॥२७९॥ कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती । दीक्षोपक्रमणां दीक्षा सामयी पौत्रिके विधौ ॥२८०॥ प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः । तुलादीक्षाथ पारोक्षी लिङ्गोद्धारोऽभिषेचनम् ॥२८१॥ अन्त्येष्टिः श्राद्धक्लृप्तिश्च शेषवृत्तिनिरूपणम् । लिङ्गार्चा बहुभित्पर्व- पवित्रादि निमित्तजम् ॥२८२॥ पं० ३ क० पु० शाक्तोपायोऽप्यणूपाय इति पाठः ।
श्लोक २८४ ] प्रथमाह्निकम् । २८७ रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः । एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् ॥२८३॥ आयातिकथनं शास्त्रो- पादेयत्वनिरूपणम् । सामान्यसंज्ञया कीर्तनं पूर्वज उद्देशः, विशेषसं- ज्ञया कीर्तनम् अनुज उद्देशः, स एव च विभागः इत्यन्यत्र उक्तः। तत्र पूर्वजमुद्देशमाह-विज्ञानभित् इत्यादिना निरूपणम् इत्यन्तम्, विज्ञानानि शाम्भ- वादीनि भिद्यन्ते यत्र इति । गतोपायः इत्यनुपायः । पौत्रिके विधौ इति पौत्रिकं विधिमाश्रित्य । दीक्षा इति पूर्वेण संबन्धः । प्रमेयप्रक्रिया इत्यर्थात् पौत्रिके विधौ इति योज्यम् । यद्वक्ष्यति 'तदाह्निकानुजोद्देशे कथितं पौत्रिके विधौ ।' इति ॥२७८-२८३॥ पं० १ क० पु० रहस्यशौचमन्त्रौघ इति, ख० पु० रहस्यचर्चेति च पाठः । पं० ३ क० पु० एकीकारः स्वरूपेण प्रबोधः शास्त्रेति पाठः । पं० ६ क० पु० पादेयत्वे न्यरूपयत् इति पाठः । पं० ७ क० पु० आयातिकीर्तनमिति पाठः ।
आह्निकानां समभ्यस्येत्
२८८ श्रीतन्त्रालोकः । किमेवमियता ग्रन्थेन उपनिबद्धेन ? इत्याशङ्क्याह इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः ॥२८४॥ आह्निकानां समभ्यस्येत् स साक्षाद्भैरवो भवेत् । सप्तत्रिंशत्सु संपूर्णा- बोधो यद्भैरवो भवेत् ॥२८५॥ किं चित्रमणावोऽप्यस्य दृशा भैरवतामियुः । इत्येष पूर्वजोद्देशः कथ्यते त्वनुजोऽधुना ॥२८६॥ विज्ञानभित्प्रकरणे सर्वस्योद्देशनं क्रमात् । द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता ॥२८७॥ विश्वचित्प्रतिबिम्बत्वं परामर्शोदयक्रमः । मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते ॥२८८॥
श्लोक २६२ ] प्रथमाह्निकम् । २८६ विकल्पसंस्क्रिया तर्क- तत्त्वं गुरुसतत्त्वकम् । योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः ॥२८९॥ संविच्चक्रोदयो मन्त्र- वीर्यं जप्यादि वास्तवम् । निषेधविधितुल्यत्वं शाक्तोपायेऽत्र चर्च्यते ॥२६०॥ बुद्धिर्ध्यानं प्राणतत्त्व- समुच्चारश्चिदात्मता । उच्चारः परतत्त्वान्तः- प्रवेशपथलक्षणम् ॥२६१॥ करणं वर्णतत्त्वं चे- त्याणवे तु निरूप्यते । चारमानमहोरात्र- संक्रान्त्यादिविकल्पनम् ॥२६२॥ पं० १० घ० पु० समुच्चारस्तदात्मना इति पाठः । ३७
२६० श्रीतन्त्रालोकः । संहारचित्रता वर्णा- दयः कालाध्वकल्पने । चक्रभिन्मन्त्रविद्याभि- देतच्चक्रोदये भवेत् ॥२६३॥ परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् । एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये ॥२६४॥ कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् । वस्तुधर्मस्तत्त्वविधि- र्जाग्रदादिनिरूपणम् ॥२६५॥ प्रमातृभेद इत्येतत् तत्त्वभेदे विचार्यते । कलास्वरूपमेकत्रिं- पञ्चाद्यैस्तत्त्वकल्पनम् ॥२६६॥ वर्णाभेदक्रमः सर्वा- धारशक्तिनिरूपणम् । पं० १८ क० पु० शक्तिविकल्पनमिति पाठः ।
श्लोकः ३०० ] प्रथमाह्निकम् । २६१ कलाद्यध्वविचारान्त- रेतावत्प्रविविच्यते ॥२६७॥ अभेदभावनाकम्प- ह्रासौ त्वध्वोपयोजने । संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता ॥२६८॥ अनपेक्षितसिद्धिश्च तिरोभावविचित्रता । शक्तिपातपरीक्षाया- मेतावान्वाच्यसंग्रहः ॥२६९॥ तिरोभावव्यपगमो ज्ञानेन परिपूर्णता । उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमगो स्थितम् ॥३००॥ शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् । पं० ११ क० पु० तिरोभावाद्यपगमे इति पाठः ।
२८२ श्रीतन्त्रालोकः । सामान्यन्यासभेदोऽर्घ- पात्रं चैतत्प्रयोजनम् ॥३०१॥ द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् । प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् ॥३०२॥ विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम् । देहपूजा प्राणबुद्धि- चित्स्वध्वन्यासपूजने ॥३०३॥ अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः । क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः ॥३०४॥ अस्त्रार्चा वह्निकार्यं चा- प्यधिवासनमग्रिमम् । पं० ५ क० घ० पु० प्रवेशोऽध्यञ्चरूपं चेति पाठः । पं० ९ क० पु० बुद्धिचेष्टाध्ववेति पाठः ।
श्लोकः ३०६ ] प्रथमाह्निकम् । २६३ तर्पणां चरुसंसिद्धि- र्दन्तकाष्ठान्तसंस्क्रिया ॥३०५॥ शिवहस्तविधिश्चापि शय्याक्लृप्तिविचारणाम् । स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः ॥३०६॥ समयित्वविधावस्मि- न्स्यात्पञ्चदश आह्निके । मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः ॥३०७॥ अग्नितृप्तिः स्वस्वभाव- दीपनं शिष्यदेहगः । अध्वन्यासविधिः शोध्य- शोधकादिविचित्रता ॥३०८॥ दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम् । भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके ॥३०६॥
सूत्रक्लृप्तिस्तत्त्वशुद्धिः
२६४ श्रीतन्त्रालोकः । सूत्रक्लृप्तिस्तत्त्वशुद्धिः पाशदाहोऽथ योजनम् । अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ ॥३१०॥ जननादिविहीनत्वं मन्त्रभेदोऽथ सुस्फुटः । इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके ॥३११॥ कलावेत्ता कृपाणयादि- न्यासश्चारः शरीरगः । ब्रह्मविद्याविधिश्चैव- मुक्तं सद्यःसमुत्क्रमे ॥३१२॥ अधिकारपरीक्षान्तः- संस्कारोऽथ तुलाविधिः । इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके ॥३१३॥ पं० ९ क० पु० कालाववेत्तेति पाठः । पं० १३ क० पु० अधिकारिपरीक्षातः संस्कार इति पाठः ।
श्लोकः ३१७ ] प्रथमाह्निकम् । २६५ मृतजीवद्विधिर्जालो- पदेशः संस्क्रियागणः । बलाबलविचारश्चे- त्येकविंशान्हिके विधिः ॥३१४॥ श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः । शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे ॥३१५॥ परीक्ष्ताचार्यकरणं तद्गतं हरणं मतेः । तद्विभागः साधकत्व- मभिषेकविधौ त्वियत् ॥३१६॥ अधिकार्यथ संस्कार- स्तत्प्रयोजनमित्यदः । चतुर्विंशेऽन्त्ययागाख्ये वक्तव्यं परिचर्च्यते ॥३१७ ॥ पं० १५ क० पु० चतुर्विंशतियागाख्ये इति पाठः ।