तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 290, कुल 368 में से
संदर्भ में पढ़ें२८० श्रीतन्त्रालोकः । ननु संख्यासाम्यमात्रादेव उद्देशादित्रयस्य पश्य- न्त्यादिरूपत्वम्, इति किमिदम् ? इत्याशंक्याह ❊इच्छादि शक्तित्रितय- मिदमेव निगद्यते । पूर्वेण संबन्धः । एतत्प्राणित एवायं व्यवहारः प्रतायते ॥२७२॥ सकलः खलु अयं शुद्धाशुद्धात्मा व्यवहारः सं- विद्भित्तावेव अवभासते इति भावः । तदुक्तं 'इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ । समलो विमलो वापि व्यवहारोऽनुभूयते ॥' इति ॥२७२॥ न केवलमेषाम् एवं-रूपत्वं, यावत् 'परो महानन्तरालो दिव्यो मिश्रस्त्वदिव्यकः । संबन्धः षड्विधस्तन्त्रे....................॥' इत्यादिना उक्तस्य संबन्धस्यापि, इत्याह ❊ तदियानत्रार्थः - य एव पशुप्रमातृभी रुद्देशादित्रयरूपतया विकल्पत्वेन व्यवहारो निर्दिष्टः स एवात्र इच्छादिरूपतया विमल एव उपादेयत्वेन कथितः । पं० १० क० पु० इत्यमित्यर्थभिन्नेति, ख० पु० इत्थमत्यन्तभिन्नार्थेति पाठः । पं० १४ क० पु० मिश्रस्त्वमिश्रक इति पाठः ।