तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 289, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २७१ ] प्रथमाह्निकम् । २७६ इत्युक्तं, तत्र च विरामनिमित्ताभावात् परीक्षाया अविश्रान्तिरेव स्यात् ? इत्याशङ्कामनुवादगर्भां प्रतिक्षिपति तत्तृष्टपातिभूयोंश- सृष्टिसंहारविभ्रमाः । परीक्षा कथ्यते मातृ- रुचिता कल्पितावधिः ॥२७०॥ ननु तत्र तत्र प्रत्यक्षादौ क्रमेण पश्यन्ती-मध्यमा- वैखरीरूपतया स्वात्मचमत्कारमयी विमर्शशक्तिरेव विजृम्भते इत्युक्तं, तत्कथमिह उद्देशाद्यात्मना स्वसिद्धान्ताप्रसिद्धं क्रमान्तरमासूत्रितम् ? इत्याशं- क्याह प्राक्पश्यन्त्यथ मध्यान्त्या वैखरी चेति ता इमाः । परा परापरा देवी चरमा त्वपरात्मिका ॥२७१॥ पं० ७ क० पु० कल्पितो विधिरिति पाठः । पं० ३ क० पु० चमत्कारमात्रविमर्शोति पाठः । पं० १६ क० पु० त्वपरा मता इति पाठः ।